SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ ११२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ११५.] अष्टमं प्रभेदमाह- भिगो चित्रगतिरिति । भीत्यस्यार्थमाह- भत्रयमिति- "समानेनकादिः" [ १-४ ] इति नियमात् तृतीयस्य समानस्य भित्वसंख्या बोधकत्वाद् भीत्यस्य भगणत्रयबोधकत्वम्, तथा च- भगणत्रयं गुरुश्च 'SI, SI, SII,' इत्येवंरूपैर्वविहिताः पादा यस्य तत् चित्रगतिरितिनामकं पङ्क्तिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- यस्येति- यस्य- जनस्य, कापि कला- कस्यापि सांव्यहारिकस्य विषयस्य शिल्पादेर्शानं नास्ति, न मतिः- शास्त्राभ्यासजा बुद्धिरपि नास्ति, तथा व्यवसायलव: अपि न-स्वल्पोऽपि व्यापारो नास्ति, सोऽपि कथंचन- केनापि प्रकारेण, जीवति- प्राणान् धारयति, यद्वा जीविकां चालयति चेत्- यदि [ तर्हि ] इदं देवं- भाग्यं, चित्रगति- आश्चर्यवृत्तिकं, खलु- निश्चयेन । शिल्प-विद्या-व्यापाराणां मध्ये किमपि जीविकासाधनभावश्यक, तदभावेऽपि कश्चिद् यदि निर्वहति तदा चित्रमेव तदिति भावः । य[s]स्य[1], न[1], का[s] पि[i], क[1]ला[5], न[1] म[1]ति:[5] इति लक्षणसमन्वयः ।। अ० २, सू०-११४ ॥ निगौ निलया ॥११५॥ नत्रयं गुरुश्च । यथा- अपि सरिदधिपतिसुता, हरिमपि परिहरति यत् । अधमपुरुषकृतति, धिगहह कमलनिलयाम् ॥ ११५.१ ॥ नवमं प्रकारमाह- निगो निलयेति । नीत्यस्यार्थमाह- नत्रयमितिनगणत्रयं गुरुश्चेति , , , ' एवंप्रकारवर्णैः कृताः पादा यस्य तत् निलयानामकं पङ्क्तिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- अपि सरिदिति- यत्- यस्मात्, सरिदधिपतिसुता- समुद्रपुत्री लक्ष्मीः, हरिमपि-विष्णुमपि, परिहरति- त्यजति, 'अपि' इति संभावनायाम्, संभाव्यते कदाचिल्लक्ष्या हरेरपि त्यागः, ततश्च, अधमपुरुषकृतरति- अधमपुरुषेषु- नीचजनेषु, कृता रतियर्या तथाभूतां, कमलनिलयां- कमलवासिनी लक्ष्मीम्, 'धिक्' इति अनादरशब्दः, अस्तु इति शेषः, 'अहह' इति दुःखातिरेके । 'अ[1]पि[1]स[1]रि [0]द[1]धि[1][1]ति[i][i]ता[1]' इति लक्षणसमन्वयः ॥ अ० २ सू०११॥१॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy