SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० ११३-११४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते 'दी[1]न[1] क[1]र[1]पी[5]त[1]शु[1]चि[1] [1]चिः[5]' इति लक्षणसमन्वयः ॥ अ० २, सू०-११२ ॥ भ्मस्गा रुक्मवती ॥११३॥ ममसा गुरुश्च । यथा- ये विजितात्मानो नयनिष्ठा, जाग्रति लोके रक्षितुकामाः । स्यानियतं तेषां वसुधेयं, रुक्मवती मृन्मय्यपरेषाम् ॥ ११३.१ ॥ चम्पकमाला सुमावेति चान्ये । पुष्पसमद्धिरिति मरतः ॥ ११३.१॥ सप्तमं प्रकारमाह-मस्गा रुक्मवतीति । मस्गेत्यस्यार्थमाह- भमसा गुरुश्चति- भगण-मगण-सगणा गुरुश्च 'II, sss, us, ' इत्येवंरूपवर्णः कृताः पादा यस्य तत् रुक्मवतीनामकं पििङ्क्तजातिच्छन्द इत्यर्थः । उदाहरतियथा-ये विजितात्मानः इति-विजितात्मानः- वशीकृतचित्ताः, नयनिष्ठा:नीतिपरायणाः, लोकं- सकलजनतां, रक्षितुकामा:- पालयितुमभिलपन्तः, ये जना जाग्रति- नित्यमुद्योगलग्नाः तिष्ठन्ति, तेषां कृते, इयं वसुधा- पृथ्वी, रुक्मवती- सुवर्णमयी, नियतं- निश्चितं स्यात्, अपरेषाम्- उक्तविपरीताचरणानां कृते, मृन्मयी- मृत्तिकाबहुलैव स्यात्, इत्यर्थः । स्थिरचित्तो निपुणो लोकोपकारी च लक्ष्मीपात्रं विपरीतो दरिद्र एवेति भावः । 'ये[s]वि[1]जि [1]ता[5]त्मा[5]नो[s]न [1]य[1] नि[s]ष्ठाः[s]' इति लक्षणसङ्गतिः । अस्यवच्छन्दसो नामान्तराण्याह- चम्पकमाला सुभावेति चान्य इति- कालिदासः स्वकीये श्रुतबोधे चम्पकमालामाह- यथा "तन्विगुरुस्यादाद्यचतुर्थ पञ्चमषष्ठं चान्तमुपान्त्यम् । , इन्द्रियबाणयंत्र विरामः सा कथनीया चम्पकमाला ॥" इति एतत् समानमेव लक्षणम् । काश्चिदन्य एतच्छन्दः सुभावत्याह । पुष्पसमृद्धिरिति भरतः इति- भरतनाट्यशास्त्रे च सम्प्रति न तत्पाठोऽवलोक्यते ॥अ० २, सू०-११३ ॥ भिगो चित्रगतिः ॥११४॥ भत्रयं गुरुश्च । यथा- यस्य न कापि कला न मति-नं व्यवसायलवोऽपि तथा । सोऽपि कथंचन जीवति चेद, देवमिदं खलु चित्रगति ॥ ११४.१ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy