________________
सुवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ११२.] पञ्चमं प्रभेदमाह- रज्रगा मयूरसारिणीति- रगण-जगण-रगणा गुरुश्च 'SIS, ISI, sis, s' इत्येवंप्रकारवर्णेविहिताः पादा यस्य तत् मयूरसारिणीनामकं पङ्क्तिजातिच्छन्द इत्यर्थः । उदाहरति- यथा-या घनान्धकारेतिया घनान्धकारडम्बरेषु- घनानि-निबिडानि, अन्धकारडम्बराणि-तमस्तोमाः, तेषु, पक्षान्तरे- घन:- मेधः, कृतेषु अन्धकारडम्बरेषु, इह प्रीतमानसाप्रसन्नहृदया, भुजङ्गान्- सर्पान्, अथ च विहान्, अपि क्षणात्- अचिरेण, क्षोभयन्ती- चित्तोद्वेगं नयन्ती, विसर्पति- सर्वतः परिभ्रमति, ताम्- पूर्वोक्तगुणयुक्ताम्. मयूरसारिणीं- मयूरीव सरति सच्छीला ताम्, [ मृगक्षीरादेराकृतिगणत्वात् वद्भावः ] संत्यजेत् । अयमाशयः- यथा मयूरी मेधान्धकारबाहुल्यमालोक्य प्रसन्ना सती सानपि भीषयन्ती इतस्ततः परिभ्रमति तथैव या स्त्री निबिडे ऽन्धकारे प्रसन्ना सती, सर्वदा सङ्गसौलभ्यादनुद्विग्नहृदयानां वेश्यास्वामिनामपि चित्तोद्वेगं वर्धयन्ती यत्र तत्राभिसरति तां स्त्रियं परिहरेदिति । 'या[s], घ[1]ना[5]न्ध[1] का[5][1]ड[5]म्ब [1][5][i][पादान्तस्थस्य विकल्पेन गुरुत्वात् ] लक्षणसङ्गतिः । द्वितीयपादान्तेऽपि वैकल्पिकगुरुत्वाश्रयणमावश्कमेव ।। अ० २, सू०-१११ ॥
___ नज्नगास्त्वरितगतिः ॥११२।। नमना गुरुश्च। यथा- दिनकरपीतशुचिरुचि-श्वरमगिरेः शिखरतटीम् । अनुसरति अपित इव, त्वरितगतिः सितकिरणः ॥ ११२.१॥
षष्ठं प्रभेदमाह-नज्नगास्त्वरितगतिरिति । नज्नगा इत्यस्यार्थमाह-नजना गुरुश्चेति- 'नगण-जगण-नगणा गुरुश्च 'III, II, III, ' इत्येवंप्रकारर्वविहिताः पादा यस्य तत् त्वरितगतिनामक पििङ्क्तजातिच्छन्द इत्यर्थः । उदाहरति- यथा-दिनकरेति- दिनकरपीतशुचिरुचि:- दिनकरेण- सूर्येण, पीता-आत्मसात्कृता, शुचिः- पवित्रा, रुचिः- कान्तिर्यस्य सः, सितकिरण:शुक्लरश्मिः चन्द्रः, अपित इव- लज्जित इव, त्वरितगतिः- शीघ्रगमनः सन्, चरमगिरेः- अस्ताचलस्य, शिखरतटीं- कूटप्रान्तभागम्, अनुसरति- अपर्सपति, अन्योऽपि हीनकान्तिस्त्रपया कापि निलयितुं पलायत इति स्वाभाविके. नार्थेन प्रकृतस्य प्रातःकालिकचन्द्रस्यावस्था समर्थितेति अर्थान्तरन्यासम्वनिः ।