SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १११.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते चतुर्थ प्रभेदमाह- मन्यगाः पणवो रिति- मन्यगा इत्यस्यार्थमाहमनयागुरुश्चेति । जैरित्यास्यार्थमाह- जैरिति पञ्चभिर्यतिरिति । तथा च सूत्रार्थः- मगण-नगण-यगणा गुरुश्च 'sss, , Iss, s' इत्येवंप्रकारर्वर्णविहिताः पादा यस्य तत् पणवो नाम पङ्क्तिजातिच्छन्द इत्यर्थः । उदाहरतियथा-स्याद्वादेति- स्याद्वादामृतमुदिते- स्याद्वादोऽनेकान्तवादः, स एवामृतंमृत्युहारकतयाऽमृतायमानं, तेन मुदिते- प्रसन्ने, चित्ते- चेतसि, इतराअन्या, शास्त्रोक्ति:- शास्त्रवार्ता, कटुः- अरसनीया, भाति- विज्ञायते, एवम्उक्तप्रकारेण, चतुरङ्गायाः वादि-प्रतिवादि-सभ्य-सभापतिरूपाङ्गचतुष्टययुक्तायां, संसदि- सभायां, जयपणवं- विजयवाद्य घोषं, दत्त्वा- कृत्वा, जल्यामःकथयामः । अस्या नामान्तरमाह- कुवलयमालेति भरत इति- भरतनाट्यशास्त्रे पाठभेदेनास्या नामभेदो लक्ष्यते । तथा बडोदामुद्रिते पुस्तके मुख्यपाठस्थाने यल्लक्षणं दत्तं तत्र उत्पलमालिकेति नाम दृश्यते, यथा "दशाक्षरकृते पादे त्रीण्यादी त्रीणि नधने । यस्या गुरूणि सा ज्ञेया पङ्क्तिरुत्पलमालिका ॥" इति [ ] एवं कोष्ठकमध्ये यः पाठः प्रदत्तस्तत्र कुवलयमालेति नाम दृश्यते । यथा "त्रीण्यादौ यदि हि गुरूणि स्युश्चत्वारो यदि लघवो मध्ये । पङ्क्तावन्तगतमकारः स्याद् विज्ञेया कुवलयमालारव्या।" इति लक्षणेऽपि भेदमाह- केचित् तु यगणस्थाने सगणं मन्यन्ते इति- अत्र तृतीयं सगणं न्यस्यन्तीति भावः । तथा चादी त्रयो गुरवः ततः पञ्चलघवस्ततो गुरुद्वयमिति 'ssss' छन्दोरूपं भवति । परिमिदमुपलब्धेषु छन्द:शास्त्रेषु न दृश्यते । 'स्या[s]द्वा[5]दा[5] मृ[]त[1] मु[1]दि[1]ते[5], चि[5]ते[s]' इति लक्षणसंगतिः ।। अ० २, सू०-११० ।। रज्रगा मयूरसारिणी ॥१११॥ रजरा गुरुश्च । यथा-या घनान्धकारडम्बरेषु, प्रीतमानसा विसर्पतीह । सोमयन्यपि क्षणाद् भुजंगान, संत्यजेन्मयूरसारिणी ताम् ॥ १११.१ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy