________________
१०८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १०६-११०.] पङ्किजातिच्छन्द इत्यर्थः । उदाहरति- यथा- भ्रूविलासेति- भ्रूविलासदूरीकृतोल्लसत्कामकार्मुका- भ्रूविलासेन- भृकुटिलीलया, दूरीकृतं- तिरस्कृतम्, उल्लसत्- स्फुरत्, कामकार्मुकं- मदनधनुर्यया ताम्, कान्तिशालिनीद्युतिमतीम्, मञ्जुगुञ्जिमञ्जीरराजितां- मधुररणन्नू पुरशोमिताम्, इमां- प्रकृते दृश्यमानां, कामिनीनां-स्त्रियां, पङ्क्तिकाम्- आवलिं, पश्य- अवलोकयेत्यर्थः । 'भ्रू[s]वि[1]ला[s]स[1][s]री[s] कृ[1]तो[s]ल्ल [1] सत्[s]' इति लक्षणसमन्वयः ।। अ० २, सू०-१०८ ।।
मस्जगाः शुद्धविराट् ॥१०६॥ सम्यग्ज्ञानचरित्रपात्रता, यो दधे भुवनकबान्धवः । त्रैलोक्यस्पृहणीयतां गतः, सत्यं शुद्धविराडयं मुनिः ॥ १०६.१ ॥
तृतीयं प्रकारमाह- मस्जगाः शुद्धविराडिति- मगण-सगण-जगणा गुरुश्च 'sss. ||s. Is1. s.' इत्येवंप्रकारैर्वणः कृताः पादा यस्य तत् शुद्धविराट् नाम पङ्क्तिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- समग्ज्ञानेति- यः, भुवनैकबान्धव:- भुवनस्य- सकललोकस्य एकबान्धवः- प्रधानबन्धुः, सम्यग्ज्ञानचरित्रपात्रता- सम्यग्ज्ञानं च चरित्रं च ते, तयोः पात्रतां- भाजनत्वं दधेधारयति स्म, त्रैलोक्यस्पृहणीयतां- त्रिजगच्छलाघनीयत्वं, गतः- प्राप्तः, अयं मुनिः- साधुः, सत्यं- निश्चितं, शुद्धविराट- शुद्धः- निष्पापः सन् विराजतेशोभते इति तादृशः इत्यर्थः । सम्यगज्ञानादिभिः सकलप्राणिहितकरणेन च पवित्रो मुनिः सत्यमेव शुद्धः सन् सर्वाधिकं शोभते, तेन च सकलजनश्लाधतीयतां प्राप्नोतीति भावः । 'स[5] म्यग् [s]ज्ञा[5]न[1]च [1]रि[s] [1]पा[s] [1]तां[5]' इति लक्षणसमन्वयः ।। अ० २, सू०-१०६ ।।
मन्यगाः पणवो ङः ॥११०॥ मनया गुरुश्च । डैरिति पञ्चभिर्यतिः । यथा- स्याद्वादामृतमुदिते चित्ते, शास्त्रोक्तिः कटुरितरा भाति । एवं संसदि चतुरङ्गायां, जल्पामो जयपणवं वत्वा ॥ ११०.१॥ कुवलयमालेति भरतः । केचित् तु यगणस्थाने सगणं मन्यन्ते ॥ ११०.१॥