SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० १०८. ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते १०७ पङ्क्तिजातिच्छन्दः, तत्र च प्रतिपादं चतुर्थाक्षरे यतिः - विराम इत्यर्थः । उदाहरति- यथा- आताम्रत्वमिति वपुषि - शरीरे, आताम्रत्वं- ईषद्रुक्तत्वं, दधानः- धारयन्, घूर्णन्- भ्राम्यन्-, पृथ्वीतलपतनेच्छु:- पृथ्वीतलेपृथ्व्या उपरि, पतनस्य इच्छु:- अभिलषिता, वारुण्यां- मदिरायां पश्चिमाशायां च द्राक् - झटिति, निहितकरः- स्थापितहस्तः, प्रेरितकिरणश्च, अयं भानु:- सूर्यः, मत्तावस्थां - मत्तस्य मद्यादिना विक्षिप्त चेतसो जनस्य, अवस्थांस्थिति, प्रथयति - प्रकटीकरोतीत्यर्थः, सायं सन्ध्यायां सूर्यस्य, मदिरादिपानेन च विक्षिप्तस्य जनस्य सदृशी स्थितिरिह वर्णिता । 'आ [S] ता [S] [s] त्वं [s], व [ 1 ]पु [ 1 ]षि [ 1 ], द [ 1 ]धा [s]नो [s]' इति लक्षणसङ्गतिः । अत्र विशेषमाहइयं च यद्यपि वानवासिकायामन्तर्भवतीति- तृतीयध्याये " द्वादशश्च वानवासिका”[ ६७ ] इति लक्षिता । द्वादशश्चकारान्नवमश्च यत्र लघुर्भवति सा वानवासिकेति सूत्रार्थः । चतुर्थभिश्चतुर्मात्रगणैविरचितपादस्य मात्रासम छन्दसो यस्य प्रतिपादं द्वादशी नवमी च मात्रा लघुवर्णे पतति तद्वृत्तं वानवासिकेति भावः । मत्ताछन्दस्यपि षोडश मात्रा: प्रतिपादं सन्ति, तत्र नवमी द्वादशी च मात्रा लघुनि वर्णे पतति, तथा च वानवासिकयैव गतार्थमिदं छन्द इति पूर्वपक्षार्थः, उत्तरपक्षमाह - तथापि विशेषसंज्ञार्थमुक्तेति, भयमाशयःइदं छन्दो न केवलं मात्रावृत्तेऽन्तर्भवति, अपि तु अक्षरवृत्तेऽप्यस्त्यस्यावकाशः, तत्र च नामान्तरेणापीदं व्यवहर्तुं शक्यत इति शिष्यबुद्धिवैशद्यार्थं पृथगप्युक्तेति भावः । न केवलमत्रैवायं व्यवहारोऽन्यत्रापि क्वचिदक्षरवृत्त-मात्रावृत्तयोः समतायामिदं ज्ञेयमित्यतिदिशति - एवमन्यत्रापीति यत्र क्वचनान्यत्रापि च्छन्दसि समानपादता प्रतीयेत तत्र सर्वत्र विशेषसंज्ञार्थमेव पृथगुक्तिर्बोध्येति भाव: ।। अ० २, सू० - १०७ ॥ - जगाः पक्तिका ||१०८|| रयजगाः । यथा - भ्रूविलासदूरीकृतोल्लसत्- कामकार्मुकां कान्तिशालिनीम् । मज्जुगुञ्जिमञ्जीरराजितां, पश्य कामिनीपङ्क्तिकामिमाम् ।। १०८.१ ॥ द्वितीयं प्रभेदमाह - र्यज्गाः पङ्क्तिका इति- रगण-यगण - जगणा गुरुश्च 'SIS. Iऽऽ. ISI. ऽ' इत्येवंप्रकारैर्वणैः कृताः पादा यस्य तत् पङ्क्तिका नाम
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy