________________
१०६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १०६-१०७.] नविभ्रमा- स्ताः स्तवीमि हन्त ! कामिनीः ।। १०६.१ ॥ तरंगवतीत्यन्यः ॥ १०६.१ ॥ १६॥
ऊनविशं प्रकारमाह- रत्राः कमिनीति- रगण-जगण-रगणा: 'sis, IsI, sis,' इति, एवंप्रकारैर्वर्णविहिताः पादा यस्य तत् कामिनीनामकं बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- यत् प्रसादतः इति- अयं पुष्पसायकःकुसुमबाणः कामः, यत्प्रसादत:- यासां कामिनीनां प्रसादतः- कृपादृष्टया, जगत्वयं-त्रिलोकी, जयति- स्ववशे करोति, उल्लसन्नबीनविभ्रमा:- उल्लसन्तोविकसन्तः, नवीनाः, विभ्रमा:- विलासा यासां ताः, ता:- पूर्वाक्तगुणयुक्ताः, कामिनी:- कमनीया अङ्गनाः, स्तवीमि- प्रशंसामि, हन्त! इत्याश्चर्ये । एतावानासांप्रभावो यदासां कृपाकटाक्षमात्रसाहाय्येन कोमलतरपुष्पप्रहरणोऽपि कामत्रिलोकीं वशीकरोतीत्याश्चर्यमिति भावः । 'य[s]त्प्र[1]सा[s]द[1]तो [s], ज[1]य[s]त्य[1] यं[s] इति लक्षणसङ्गतिः। अस्या एव नामान्तरमाह-तरङ्गवतीत्यन्यः इति- अन्य आचार्य इदमेबच्छन्दस्तरङ्गवतीति नाम्ना व्यवहरतीत्यर्थः । इत्थं नवाक्षरपादाया बृहतीजातेरूनविंशतिभेदाः- ।। ६.१६ ॥ प्रस्तारगत्या तु द्वादशधिका पञ्चशती गणना भवति । तदुक्तं भरतेन- “शतानि पञ्चवृत्तानां बृहत्यां द्वादशैव तु" इति [ म० ना० शा० १५५५६ ] । अ० २, सू०-१०६॥
पङ्क्तौ ममस्गा मत्ता घेः ॥१०७|| ममसगाः । धरिति चतुभिर्यतिः । यथा- आताम्रत्वं वपुषि दधानो, घूर्णन पृथ्वीतलपतनेच्छुः । द्राग्वारुण्यां निहितकरोऽयं, मत्तावस्थां प्रथयति भानुः ॥ १०७.१ ॥ इयं च यद्यपि वानवासिकायामन्तर्भवति तथापि विशेषसंज्ञार्थमुक्ता । एवमन्यत्रापि ॥ १०७.१॥
दशाक्षरपादायाः पङ्क्तिजातेर्भेदान् वक्तुभारमते- 'पङ्क्तौ मभस्गा मत्ता घः' इति, मभस्मा इत्यस्यार्थमाह- मभसगाः इति । चैरित्यस्यार्थमाहचतुभिर्यतिरिति- "त्र्यादिर्गादिः" [१-१७] इति परिभाषासूत्रबलेन 'धवर्णस्य' चतुःसंख्यावाचकत्वादिति भावः । तथा चायं सूत्रार्थ:- मगण-भगणसगणा गुरुश्च, 'sss, sis, us, 5 इत्येवंरूपवर्णविहिताः पादा यस्य तत् मत्तानामकं