________________
[अ० २, सू० १०४-१०६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
नौ सो लघुमणिगुणनिकरः ॥ १०४॥
यथा - अपरमणिगुणगणः, सरिदधिप ! तव कियान् । हरिहृदि विलसति - लघुमणिगुणनिकरः ॥। १०४.१ ।।
य
१०५
सप्तदशं प्रकारमाह- नौ सो लघुमणिगुणनिकरः इति - नगणद्वयं सगणश्व 'III, III, IIऽ,' इति प्रकारैर्वर्णैः कृताः पादा यस्य तत् लघुमणिगुणनिकर इति बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा - अपरमणीति - हे सरिदधिप ! - नदीपते समुद्र !, तव - भवतः, अपरमणिगुणगणः - स्थूलमणिमालासमूहः, क्रियान्- कया संख्यया परिच्छेद्यः, यत् - यस्मात् लघुमणिगुणनिकर:- क्षुद्रमणिमालासमूहः, हरिहृदि - विष्णोर्वक्षसि, विलसति - शोभते । यस्य तव क्षुद्रणयोऽपि तथा महार्घा यद् विष्णुनाऽपि स्ववक्षसि धार्यन्ते तस्य स्थूलमणिगणानां का गणना भवितुमर्हतीति भाव: । 'अ [ 1 ] प [ 1 ]र [ 1 ] म [ 1 ]णि[1]गु[1]ण[1]ग[1]ण[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१०४ ॥ सम्साः सिंहाक्रान्ता ॥ १०५ ॥
मभसाः । यथा- त्वद् दृष्टेयं भवति विभो !, दीना प्रत्यर्थनृपचमूः । राहुग्रस्तेव शशिकला, सिंहाक्रान्तेव मृगवधूः ।। १०५.१ ॥
अष्टादशं प्रभेदमाह - मभ्सा सिंहाक्रान्तेति - मगण भगण-सगणाः sss, SII, III, इति, एवंप्रकारैर्वर्णैः कृताः पादा यस्य तत् सिंहाक्रान्तानामकं बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा - त्वदृष्टेति - हे विभो ! - सर्वथा समर्थ !, इयं प्रत्यर्थिनृपचमूः - शत्रुराजसेना, त्वद्दृष्टा - स्वयाऽवलोकिता सती, दीना - कृपणा भवति, किमिवेत्याह- रादुग्रस्ता - संहिकेयाक्रान्ता, चन्द्रकला- चन्द्रलेखा इव, [ किञ्च ] सिहक्रान्ता - केसरिकृतास्कन्दा, मृगवधूःहरिणाङ्गना इव, रादुग्रासे शशिकला सिंहाक्रमणे च मृगी यथा दीना भवति तथा तव रिपूणां सेना तवाग्रे जायत इति भावः । त्वद् [S] दृ [s]ष्टे [s]यं [s]भ[1]व[1]ति[1]वि[1]भो[s]' इति लक्षणसमन्वयः ॥ अ० २, सू० - १०५ ॥ रज्राः कामिनी ॥ १०६॥
जराः । यथा - यत्प्रसादतो जयत्ययं, पुष्पसायको जगत्त्रयम् । उासन्नवी