________________
१०४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० १०२-१०३.]
तन्मा मकरलता ॥१०२।। तनमाः । यथा- भमे! भवदरिनारीणा-मार्दाअननयनास्रोघः । आसूत्रि कुचतटे भ्रष्ट-नव्या मकरलताङ्गिः ॥ १०२.१ ॥
पञ्चदशं प्रकारमाह- तन्मा मकरलतेति- तगण-नगण-मगणाः 'sI, Im, sss' इत्येवंरूपवर्णः कृताः पादा यस्य तत् मकरलतानामकं बृहतीजातिच्छन्द इत्यर्थः। उदाहरति- भैमे इति- भीमस्य राज्ञोऽपत्यं भैमिः, तत्सम्बोधने हे भैमे ! [ भीमस्य वृद्धमपत्यं भैमिर्जयसिंहदेवस्तस्य सम्बोधनमिति पर्यायकारः ] भवदरिनारीणां- तव शत्रुस्त्रीणाम्, आर्द्राञ्जननयनास्तौधः-- आद्रंसद्यःकृतम्, अञ्जनं ययोस्ते आर्द्राञ्जने, ते च नयने- नेत्रे, तयोरस्रोधः- अश्रुकणकुलैः, भ्रष्टः- नीचैः पतितः, कुचतटे- स्तनप्रान्ते, नव्या- नूतना, मकरलताभङ्गि:-मकराकरवल्लीरचना, [ मत्स्याकृतिपत्ररचना ] आसूत्रि-निबद्धा। स्वया रिपूणां निगडनात् पतिवियुक्तास्ता: सततं रुदन्ति, इति नेत्रजलेन सह सद्यो धतमञ्जनं स्तनोपरि पतति, तेन च कस्तूरीरचित-मकरवल्लीसृष्टिरिव तत्र भवतीति भावः । 'भ[5]मे![s], भ[i][i]द[5]रि[5]ना[5] री[s]णां[s]' इति लक्षणसमन्वयः ॥ अ० २, सू० १०२ ॥
नज्याः शशिलेखा ॥१०३|| नजयाः । यथा- कलयति पाण्डुरभावं, तव विरहे सुतनुः सा। सुभग! यथा दिवसादौ, गलितरुचिः शशिलेखा ॥ १०३.१ ।।
षोडशं प्रकारमाह- नज्याः शशिलेखेति- नगण-जगण-यगणाः 'm, is, Iss,' इत्येवंरूपैर्वर्णः कृताः पादा यस्य तत् शशिलेखानामकं बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा-कलयतीति- तव-भवतः, विरहे- वियोगे, सापूर्वपरिचिता, सुतनुः- शुभाङ्गी, पाण्डुरभावं-श्वेतिमानं, कलयति-प्राप्नोति । किमिवेत्याह- यथा- हे सुभग ? दिवसादौ- प्रातःकाले, शशिलेखा- चन्द्रविम्बं, गलितरुचि:- नष्टकान्तिः , भवति । 'क[[ल[1] य[0]ति[1], पा[s]ण्डुर]भा[5][5]' इति लक्षणसमन्वयः ॥ अ० २, सू०-१०३ ॥