SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ६८-६६.] सौ मस्तारम ॥१८॥ यथा- सकलासुमतां रक्षाय, यतितव्यमितीयत् तत्त्वम् । रसवादविदा तत् सारं, यदि वार्तिक ! रक्त तारम् ॥ ६८.१ ॥ एकादशं प्रभेदमाह- सौ मस्तारमिति- सगणद्वयं मगणश्च ।।5. S. ऽऽऽ' इत्येवंरूपर्वणः कृताः पादा यस्य तत् तारनामकं बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा-सकलेति- सकलासुमतां- सर्वप्राणिनां, रक्षायै- अहिंसनाय, यतितव्यं- प्रयत्नः करणीयः, इति इयत्- एतावदेव, तत्त्वं- सर्वसिद्धान्तरहस्यम्, एतत्समर्थनायार्थान्तरं न्यस्यति- वातिक !- वार्ता लोकयात्रा प्रयोजनमस्येति वार्तिकः, तत्सम्बोधने- हे वार्तिक ! - रसवादिन् !, रसवादविदां- रसायनप्रयोगनिपुणानां भवादृशां, तत्- तदेव, सारं- मुख्यं, यदि रक्तं- तानं द्रव्यं, तारं- रूप्यं, क्रियेतेति शेषः । यथा रसशास्त्रविदां रसस्य रसान्तरपरिवर्तनं मुख्यं तथा स्वभावतो हिंसापरायणस्य प्राकृतजनस्य अहिंसायां स्थितिरेव तत्त्वं- सारभूतमिति भाव: । 'स[1]क[1]ला[5]सु[1] म[]तां[s],र[5]क्षा[5] ये [5]' इति लक्षणसमन्वयः ।। अ० २, सू० ९८ ।। सिः सौम्या ॥६६॥ सिरिति सगणत्रयम् । यथा- निजजीवितमात्ररसात्, कृतनिष्कृपकर्मतते! । मृगयामधुमद्यरते!, कुरु धर्ममसौम्यमते! ॥ ६६.१ ॥ द्वादशं प्रभेदमाह- सिः सौम्येति- "सम्मानेनकादि:" [१-४] इति संख्यापरिभाषानुसारमाह- सिरिति सगणत्रयम् इति- ।. ।5. ।।5.' इत्येवंप्रकारणे: कृता: पादा यस्य तत् सौम्यानामक बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- निजजीवितेति-निजजीवितमात्ररसात्- स्वजीवनमात्राभिलाषेण, कृतनिष्कृपकर्मतते !- कृता- विहिता, निष्कृपा- भूतदयारहिता, कर्मतति:- कार्यसमूहो येन सः, तत्सम्बोधनं, मृगया-मधु-मद्यरते!- मगयायां मधुनि मद्ये च रति:- प्रसक्तिर्यस्य सः, तत्सम्बोधनं, असौम्यमने!-क्रूरबुद्धे!, धर्म- सुकृताचरणं, कुरु इत्यर्थः । स्वजीवितमात्ररक्षार्थ त्वया बहवो जीवा हिंसिताः, पुष्पेभ्यः सञ्चितं क्षौद्रं, मद्यं च माध्वीकादि सेवितं येन तब बुद्धिः
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy