________________
[ अ० २, सू० ६६-६७ ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
जसा अक्षि ॥ ६६॥
सजसाः । यथा - विषमास्त्र एष इति यत्, कवयो वदन्ति तदसत् । प्रहरत्ययं हि मदनः, सुतनो ! तवाक्षिललितैः ॥ ६६.१ ।।
१०१
नवमं प्रभेदमाह - "जसा अक्षि" इति - सगण - जगण - सगणाः 115, 151, IIS' इतिरूपैर्वर्णे विहिताः पादा यस्य तत् 'अक्षि' नामकं बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- विषमास्त्र इति एष मदनः, विषमास्त्र :- विषमं - कठोरं [ विषमसंख्यायुक्तं तद्वाच्यानां पञ्चत्वात् ] अस्त्रं यस्य तादृश इति यत् कवयो वदन्ति तत्, असत् - मिथ्या, हि- यतः, हे सुतनो ! - सुन्दरगात्रे !, अयं - मदन:, तव - भवत्या, अक्षिललितैः - दृष्टिविलासः, प्रहरति । तथा च ललितास्त्र इति वक्तव्ये विषमास्त्र इति कथनं तेषामसत्यमिति भावः । अत्र पञ्चवाणत्वात् कामस्य विषमास्त्रत्वमिति प्रकृतं प्रतिषिध्य कठोरास्त्रपरत्वं स्थापित मित्यनुत्यलंङ्कारोऽपि व्यज्यते । 'वि [ 1 ]ष [ 1 ] मां [s]स्त्र [1], ए []ष [1], इ[ 1 ]ति [ 1 ], यत् [s]' इति लक्षणसमन्वयः ॥ अ० २, सू० ६६ ॥ मः सौ कनकम् ॥६७॥
यथा- मिथ्यादर्शनदिग्धमनाः, पापं धर्मधिया मनुते । गाढोन्मत्तरसान्धदृशां, मृत्पिण्डोऽप्यथवा कनकम् ।। ६७१ ।।
1
दशमं प्रकारमाह- मः सौ कनकमिति- 'मगणः सगणद्वयं च sss, 115, ॥ इतिरूपैर्वर्णे विहिताः पादा यस्य तत् कनकं नाम बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- मिथ्यादर्शनेति- मिथ्यादर्शनेन - विपरीतश्रद्धया, दिग्वम् उपलितं पुष्टमिति यावत् मनो यस्य सः, पापं दुष्कृतं धर्मंधिया - सुकृतबुद्धया, मनुते - जानाति, अथवा गाढोन्मत्तरसान्धदृशां - गाढेनघनेन, उन्मत्तरसेन - धत्तूरद्रवेण, [ तत्सेवनेन ], अन्धदृशां - आच्छन्नदृष्टीनां जनानां कृते, मृत्पिण्डोऽपि - लोष्टमपि, कनकं - सुवर्णम् । मादकद्रव्यसेवने दूषितविपरीतं पश्यति तथा मिथ्याज्ञानदूषितान्तःकरणैरपि पापमेव धर्मदृष्टया द्रुष्टुं युज्यत इति भाव: । 'मि [s] या [5] [5]र्श[1]न [1] दि[s]ग्ध[1] [] नाः [s] ' इति लक्षणसमन्वयः ।। अ० २, सू० ६७ ॥
-