SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०० सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ६५. ] सप्तमं प्रकारमाह- नरा भद्रिकेति- 'रगणः, नगणः, रगणः, Is Im sis' इत्येवंरूपवर्णविहिताः पादा यस्य तत् भद्रिका नाम बृहतीजातिवृत्तमित्यर्थः । उदाहरति- यथा-पुण्यपापजलवधिते इति-हे हृदय ! सौख्यदुःखलतिके- सौख्यं च दुःखं चेति सौख्यदुःखे, ते एव लतिके- वल्लयो, स्वयम्आत्मना त्वयंव, पुण्यपापजलवर्धिते,- पुण्यं च पापं च पुण्यपापे, ते एव जलं तेन वर्धिते- वृद्धि नीते, तत्- तस्माद्धेतोः, परिविप्लवं- चित्तोद्वेगं, जहीहित्यज, साधुता- मुनिव्रतम्, भद्रिका- श्रेयस्करी । त्वया पुण्यजलेन सौख्यलतिका, पापजलने च दुःखलतिका स्वयमेव वर्धिता, इति सौख्येन दुःखेन वा यस्तव चित्तोद्वेगः स वृथव, स्वकृते फले क उद्वेगः, यथा कृतं तथा भुक्ष्व, कः खलु स्वोत्पादितफलानि न भुङ्क्ते। यदि पुनरीदृशफलभोगस्य समीहा न भवेत् तहि साधुतां श्रय यत्र न पुण्यपापे भवत इति न तज्जन्यसुखदुःखे भविष्यत इति कंवल्यं प्राप्स्यसि, अत एव साधुता भद्रिकेत्याख्यायत इति तात्पर्यम् । 'पु[s] व्य[1]पा[s]प[1]जल[1][s]धि[1]ते[s]' इति लक्षणसङ्गतिः सर्वत्र । अ० . २, सू० ६४ ॥ नौ र उपच्युतम्॥६५॥ यथा- नृपः कुरु करुणां जने, परिहर खलसंगमम् । विमृश सुरविमानतस्-, त्रिदशपतिमुपच्युतम् ।। ६५.१ ॥ अष्टमं प्रकारमाह-नौर उपच्युतमिति । 'नगणद्वयं रगणश्च ॥ ॥, जा' इतिरूपवर्णविहिताः पादा यस्य तत् 'उपच्युतं'नाम बहतीजातिच्छन्द इत्यर्थः । उदाहरणमाह-यथा-नृपेति- हे नृप!- राजन् !, जने करुणां कुरु, खलसंगम- दुर्जनैः सह सम्बन्धं, परिहर- त्यज, सुरविमानत:- देवविमानाद, उपच्युतं- पतितं, त्रिदशपतिम्- इन्द्रं, विमृश- विचारय । यदा पुण्यक्षयात सुरपतिरपि नीचैः पतति, तस्यापि आधिपत्यं विनाशशीलं तहिं तवाधिपत्यं स्थिरं स्थास्यतीति का प्रत्याशा, अतो यावत् न प्रच्यवसि तावदेख दीने जने दयां कुरु तेन पुण्यवृद्धिर्भविष्यति, खलसंगति त्यज, तेन च पापसंचयो न भविप्यतीति न ते च्युतिशङ्का स्थास्यतीति भावः । 'नृ[1]प[1], कु[1][], क[1] रु[1]णां[s], ज[1]ने[5]' इति लक्षणसमन्वयः ॥ अ० २, सू० ६५ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy