________________
[अ० २, सू० ६२-६४ ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
भजसा उदयम् ॥२॥
यथा - सुभ्रु ! भवदीयवदने, सत्यपि नितान्तरुचिरे । निस्त्रप इर्वष सहसा, वाञ्छति शशाङ्क उदयम् ।। ६२.१ ।।
६६
पञ्चमं प्रभेदमाह - भजसा उदयमिति- 'भगण - जगण - सगणाः SII. Ist. IS' इत्येवंप्रकारैर्वर्णे विहिताः पादा यस्य तत् 'उदयं' नाम बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा - सुभ्रु इति - हे सुभ्रु ! - सुन्दर भ्रुकुटे !, नितान्तरुचिरे - अतिशयकमनीये, भवदीयवदने- तव मुखे, सत्यपि निस्त्रपः- निलंज इव, एष - प्रत्यक्षस्थितः, शशाङ्कः चन्द्र:, सहसा अविचार्येव, उदयं- दृष्टिपथातिथित्वं, वाञ्छति - अभिलषति । शशाङ्काधिकशोभाशिलिनि तव मुखे पूर्वं लोकदृष्टिमागते तेनोदेतुमयुक्तं तथापि यदयमुदयमिच्छति तेन निर्लज्जोऽविचार्यकारी चेति विज्ञायत इति भावः । अत्र 'सु [s] भ्रु [1], भ [ 1 ] व [ 1 ]दी [s]य[1]व[1]द[1]ने [s]' इति लक्षणसमन्वयः ॥ अ० २, सू० ६२ ॥
भौ र उत्सुकम् ||१३||
यथा - आपदि दीनमनोरथं संपदि हर्षपरायणम् । मा कुरु मानस चापलं, संस्मर तत्त्वमनुत्सुकम् ॥ ६३.१ ।।
"
षष्ठं प्रभेदमाह - भौ र उत्सुकमिति - 'भगणद्वयं रगणश्च 511. S. SIS' इत्येवंरूपैर्वर्णे विहिताः पादा यस्य तत् उत्सुकं नाम बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा - आपदिति - हे मानस ! आपदि - विपत्तौ दीनमनोरथंदीन: - कृपणः, मनोरथो यस्मिन् तादृशं सम्पदि- वृद्धी, हर्षपरायणम् - आनन्दैकरसं, चापलं - चाञ्चल्यं मा कुरु- न विधेहि, अनुत्सुकं सत् - औत्सुक्यरहितं यथा स्यात् तथा तत्त्वम् - आत्मनो यथार्थस्वरूपं, संस्मर - अनुध्यायेत्यर्थः । 'आ [S] प [1]दि [1], दी [1]न [1] [ | ] नो[5] र[1]थं [5] ' इति लक्षणसमन्वयः ॥ अ० २, सू० ६३ ।।
1
र्नरा भद्रिका ॥ ६४ ॥
रनराः । यथा- पुण्यपापजलर्वाधिते, सौख्यदुःखलतिके स्वयम् । तज्जहीहि परिविप्लवं साधुता हृदय ! भद्रिका ।। ६४.१ ।।