________________
१८
सवृत्तिछन्दोऽनुशासनप्रद्योते [अ० २, सू० ६१.] ज्ञातं, किं तदित्याह- इयं भुजगशिशुस्ता- सर्पपोतगतिः, यथा सर्वपोतः कुटिलतरं गच्छति तथैवेयमित्येनां दृष्ट्वा सर्पस्मरणाद् भीतस्त्वं मूच्छित इत्यर्थः । कारणान्तरमाह-यद्वा, इयम् उरगकन्या-नागजातीया बाला, अलौकिकरूपाया अस्या उरगकन्यात्वं सम्माव्यते, तासां च दृष्टिविषत्वमिति प्रसिद्धिरिति सद्दृष्टिपातेन मूर्छा सम्मवतीत्यर्थः । अवगतेहेतुं स्फोरयति- वक्रगतेरित्यर्थः, अस्या वक्रां गतिं दृष्टवा मयतदवगत मिति भावः । कथं वक्रगतेरस्यार्थस्यावगतिरिति चेदत्राह-शिशपदस्य साभिप्रायत्वादिति- 'भुजगसृता' इत्यनुक्त्वा भुगजशिशुसृतेति कथने शिशुपदं यदुपात्तं तस्य कश्चिदमिप्रायोऽवश्यमिति मन्दाकुटिला च गतिरनेनावगम्यते ।
किमियं भवदीयवोत्यप्रेक्षाऽथवा कविसम्प्रदायसिद्धोऽप्यमर्थ इति शङ्कापनोदाय पूर्वकविचनसंवादमाह-यथा च-अभ्यस्यतेति- क्वाचित्कं पूर्वकविपद्याधमिदं हलायुधवृत्तावपि प्रकृतार्थसंवादायोदाहृतम् । हे फणिशिशो!- उरगबाल!, तरुणीगतिवक्रिमाणं-युवतिपादविक्षेपकौटिल्यम्, अभ्यस्यता- पुनः पुनरनुकुर्वता भवता, अपराधाः-स्वजातिस्वभावसंपादिता दंशादिदोषाः, उन्मूलिता:उद्धृताः, तु इति पक्षान्तरे । तथा च पद्योतरार्धमिदमिति प्रतीयते, पूर्वाधंऽनेन सर्पशिशुना कृतानामपराधानामुल्लेख इति प्रत्तीयते। प्रकृते च तरुणीगति- वक्रिमायाः फणिशिशुनाऽनुकरणस्यैव स्वामीष्टार्थप्रतिपादकत्वमिति तावन्मात्रेणात्रेतदुद्धरणमिति ज्ञेयम् । अस्य नामान्तरमपीत्याह-मधुकरिकेति भरतः इति- भरत आचार्य इदमेवच्छन्दो मधुकरिकेति नाम्ना व्यवहरती त्यर्थः । तथा च तदीयं वचनम्
"नवाक्षरकृते पादे त्रीणि स्युनधनानि च । गुरूणि यस्याः सा ज्ञेया नाम्ना मधुकरी यथा ॥" इति । [ भ. ना. शा. १५-२८ ]
गरुडपुराणे तु 'शिशुभृता' इत्येव नाम दृश्यते, तथाहि- "नो मः शिशभृता भवेत्” [१।२०६।५ ] इति तत्रोक्तम् । छन्दःकौस्तुभादौ तु- "भुजगशिशुभृता" "भुजगशिशुयुता" "भुजगशिशुवृता" "भुजगशिशुसुता" इत्येव मादीनि समानासराणि नामानि दृश्यन्ते । 'न[0]य[1]न[1]वि[1]ल[1]सि[1] [5][s]स्याः [b]' इत्येवं लक्षणसमन्वयोऽवसेयः ।। अ० २, सू० ११ ॥