SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० ६०-६१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते च बृहतिका- प्रच्छादनपटः, भूपर्तयतित्वेन रूपणात् यतेः कमण्डलुधारणं द्वितीयवस्त्रधारणं च प्रसिद्धमिति वारिधी कमण्डलुत्वोपचारो मन्दाकिन्यां च प्रवारत्वोपचारः । भूलोके समुद्रपर्यन्तं, दिवि च मन्दाकिनीतीरपर्यन्तं तव निर्बाधा गतिरिति व्यङ्गयम् । 'वि[1] श[1]द[1][s]त्त[1]ल[s]ब्धा[s]त्म [1]नः' इति लक्षणसंगतिः ।। अ० २. सू० ८६ ॥ रनसा हलमुखी ॥१०॥ रनसाः । यथा- दन्तुरं कपिशनयनं, यन्मुखं विकचिबुकम् । ता स्त्रियं सुखममिलषन, दूरतस्त्यज हलमुखीम् ।। ६०.१ ॥ तृतीयं प्रभेदमाह- नसा हलमुखीति । 'रगणः sis, नगणः ।।।, सगणः ॥ इत्येवंप्रकारर्वविहिताः पादा यस्य तत् हलमुखीतिनामकं बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यया- दन्तुरं कपिशनयनमिति- दन्तुरं-- उन्नतदन्तयुक्तं, कपिशनयनं- कपिशे पिङ्गले नयने यत्र तादृशं, विकटचिबुकं-- विकटं- करालं, चिबुकं- हनु यत्र तादृशं च, यन्मुखं- यस्या मुखं स्यात्, सुखम्- आनन्दम्, अभिलष्टन्- इच्छन्, त्वम्, तां हलमुखीं- हलाकारवक्रां स्त्रियं, दूरतः- समीपमप्राप्तामेव, त्यज- परिहरेत्यर्थः ।। अ० २, सू० ६०॥ नौ मो भुजगशिशुसृता ॥६१।। यथा- नयनविलसितरस्याः, कथमिव बत मूर्छा ते । भुजगशिशुसता यद्वा, ऽवगतमुरगकन्येयम् ।। ६१.१॥ वक्रगतेरित्यर्थः, शिशुपदस्य साभिप्रायत्वात् । यथा च- अभ्यस्यता तु तरुणीगतिवक्रिमाण- मुन्मूलिताः फणिशिशो भवतापराधाः ॥ ६१.२ ।। इति । मधुकरिकेति भरतः ॥ ६१.२ ॥ चतुर्थ प्रभेदमाह- नौ मो भुजगशिशुसृतेति । 'नगणद्वयं मगणश्च ।।।, ॥ sss' इत्येवंप्रकारवर्गविहिताः पादा यस्य तत् 'भुजगशिशुसृता' नाम बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- नयनविलसितैरिति - अस्याः- प्रकृताङ्गनायाः, नयनविलसितैः- नेत्रलीलाभिः, ते- तब, मूर्खासर्वेन्द्रियक्रियाशून्यता, कथमिव- केन प्रकारेणाभूत्, बत इति- खेदे कोमलालापे वा। इति प्रश्नानन्तरं स्वयमेवोत्तरयति- अवगतं- मूळयाः कारणं
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy