SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ८८-८६.] पञ्चाशदधिकशतद्वयं भेदा भवन्ति, तदुक्तं भरतनाट्यशास्त्रे- “षट्पञ्चाशच्छते द्वे च वृत्तानामप्पनुष्टुभि'' [ १५।५६ ] इति ॥ अ० २, सू० ८७ ।। बृहत्यां मो मौ वक्त्रं जै ॥८८।। हुरिति पञ्चभिर्यतिः । यथा- बिभ्रमसारभ्रूविक्षेपं, मन्मथलीलालीलागारम् । कस्य न चित्ते कुर्यात् क्षोभ, बालकुरङ्गाक्षीणां वक्त्रम् ।। ८८.१ ॥ अथ नवाक्षरपादां बृहतीजाति वर्णयितुमाह- "बृहत्यां भो मौ वक्र " इति । तत्र डैरित्यस्यार्थमाह- जैरिति पञ्चभिर्यतिः इति, तथा चायं सूत्रार्थ:- भगणः ।, मगणद्वयं sss, sss' इत्येवंरूपनवभिर्वर्णविहिताः पादा यस्य तत् ब्रहतीजातिकं 'वक्र' नाम च्छन्दः, तत्र च पञ्चभिः परिशिष्टैश्चमिश्च "यतिः सर्वत्र पादान्ते' इत्युक्ततया पादान्ते सर्वत्र यतिनियमात् यतिभवति । उदाहरति- यथा- विभ्रमेति- विभ्रमसारभ्रूविक्षेपं- विभ्रमाणां- विलासानां, सार:- सर्वस्वभूतः, भ्रूविक्षेयः- कटाक्षपातो यत्र तादृशं, मन्मथलीलालीलागारं- मन्मथलीलाया:- कामक्रीडायाः, लीलागारं- क्रीडागृह, बालकुरङ्गाक्षीणां- बाल:- शिशुः, करङ्गः- मृगः- बालकुरङ्गः, तस्य- अक्षिणी इव अक्षिणी यासां तासां, वक्त - मुखम्, कस्य- जनस्य, चित्ते- हृदये, क्षोभं- चाञ्चल्यं, न कुर्यात्- अपि तु सर्वस्यैव हृदि चाञ्चल्यं कुर्यादेवेत्यर्थः । 'वि[5]भ्र[1] म[1]सा [s] र[s]भ्रू[s]वि[5]क्षे[s]पं[s]' इति लक्षणसमन्वयः ॥ अ० २, सू० ८८. ।। नो रौ बृहतिका ॥८६॥ यथा- विशदवृत्तलब्धात्मनः, शुचियशोयतेर्भूपते । तव कमण्डलुर्वारिधिर्, बृहतिका च मन्दाकिनी ।। ८६.१ ॥ द्वितीयं प्रभेदमाह- नो रौ बृहतिकेति- 'नगणः ॥, रगणद्वयं sis, ISI च' इति प्रकारवर्णविहिताः पादा यस्य तत् 'बृहतिका' नाम बृहतीजातिच्छन्द इत्यर्थः । उदाहरति- यथा विशदवृत्तेति- हे भूपते !, विशदे- उज्जवले, वृत्ते- चरित्रे, लब्धः- प्रतिष्ठित आत्मा यस्य तस्य, अथ च विशदमुज्जवलं वृत्तं येषां तेषु लब्धात्मन:- प्राप्तस्वरूपस्य, शुचियशोयते:-पवित्रकीर्तिकसाधोः, अथ च शुचि-पवित्रं यश एव यति:- विश्रामस्थानं यस्य यावद्यशःप्राप्ति कर्तव्यनिष्ठस्य तस्य, तव वारिधि:- समुद्रः, कमण्डलु:-जलपात्रम्, मन्दाकिनी
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy