________________
[अ० २, सू० ८७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते सवितुः- कार्यस्य, तव तेजोभिरेव कृतत्वेन तदुदयनं संप्रति व्यर्थमेवेति भावः । 'त्व[1]यि[1],ते[s]जो[s]भि[1]र[1]शे[s]ष[s]' इत्येवंप्रकारेण सगणभगणाभ्यां गुरुद्वयेन च पादनिर्मितिः ॥१॥
उदाहरणान्तरमाह-तथा-कङ्कालेति- कङ्कालमालभारिणं- कङ्कालस्यशरीरास्थिपञ्जरस्य मालां बिभर्तीति तच्छीलं "मालेषीकेष्ट०" [२।४।१०२] इति सूत्रेण मालाशब्दस्य ह्रस्वः । कन्दर्पदर्पहारिणं- कन्दर्पस्य- कामस्य, दर्पगवं हरतीति तच्छीलं, दारिणमिति पाठे तु-हरतिस्थाने दृणातीति ज्ञेयम्, संसारबन्धमोचनं- संसारबन्धस्य- जन्मजरामरणादिदुःस्वरूपसांसारिकबन्धनस्य, मोचनं- छेदकं, त्रिलोचनं- शिवं, वन्दामहे- प्रणमामः । अत्र तगण-रगणाभ्यां ssi sis, लगाभ्यां ।। च पादनिर्माणमिति । यद्यपि नाराचच्छन्दसि 'त्री ल्गो नाराचम्"[ २-७८ ]इति सूत्रेण वणितेऽन्तर्भवति, तथापि 'कन्दर्प' इति शब्दे रेफपकारसंयोगस्य गुरुत्वानाधायकत्वे तगणस्वरूपं दुष्यतीति न तेन च्छन्दसा निर्वाह इति वितानेऽन्तर्भाव इष्टः ॥२॥
तृतीयमुदाहरणमाह- तस्याः स्मरामीति- चन्द्रोपमानं- चन्द्र उपमानं यस्य तत, चन्दस्य उपमानमिति वा, कन्दर्पचापभगुरध्रुविभ्रमोपशोभितं- कन्र्दपस्य- कामस्य, चापवद् भगुरा- निम्नोन्नता या भ्रूस्तस्या विभ्रमेण- विलासेन, उपशोभितम्- विराजमानम्, तस्याः- प्रियायाः, सुन्दरम्, आननं- मुखं, स्मरामि- ध्यायामि, सम्प्रति तस्या विरहेपा तन्मुखस्मरणमेव मे सन्तोषायेति भावः । अत्रापि तगण-रगणाभ्यां ल-गाभ्यां च पादपूर्तिरिति नाराचलक्षणाक्रान्तत्वेऽपि 'कन्दर्प' इत्यत्र द्वितीयस्य वैकल्पिकं लघुत्वमिति वितानमध्येऽन्तर्भावः ॥३॥
चतुर्थमुदाहरणमाह- तृष्णां त्यजेति-तृष्णां-विषयेषु स्पृहां, त्यज-परिहर, धर्म-सुकृताचरणं, भज- सेवस्व, पापे- दुष्कृते, हृदयं- मनो, मा कुरुन प्रवर्तय, यदि तव लक्ष्मीः, इष्टा- अभिलषिता [ तर्हि ] शिष्टान्- सदाचारिणो जनान्, अनिशं- सततं, संश्रय- अनुगच्छ तानाश्रयेति वा । 'तृ[s] ष्णां[s], त्य[1]ज[i], ध[s]म[s], भ[1]ज[1]' इत्येवं पादपूर्त्या पूर्वोक्तच्छदसां लक्षणायोगेन वितानत्वमेवात्र विज्ञेयमिति ॥४॥ एवं षोडश प्रकारा अष्टाक्षरच्छन्दस उक्ता इत्याह- इत्यादि ८-१६ इति । प्रस्तारक्रमेण तु षट्