________________
६४
सवृत्तिच्छन्दोऽनुशाषनप्रद्योते [अ० २, सू० ८७.] ततिः- समूहः, जलदानां- मेधानां, माला- पङ्क्तिः इव, विचरति-[ संग्रामभूमौ ] परिभ्रमति । मेघेभ्योऽपि जलं स्रवति, कृष्णवर्णाश्च ते भवन्ति, गजा अपि ते दानवारिस्त्राविणः कृष्णवर्णाश्चेति जलदा इव राजन्ते इत्यर्थः । 'त[1]ति[1]रि[1]ह[1] क[1]रि[1]णां[s]ते[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-८६ ॥
__अन्यद्वितानम् ॥८७|| उक्तावक्ष्यमाणाच्चान्यत् समवृत्तं छन्दो वितानसंज्ञम् ।
यथा-त्वयि तेजोभिरशेषं, जगदुद्द्योतयतीदम् । उदयत्येष इदानी, सविता नाथ ! मुधव ।। ८७.१ ॥ ___ तथा- कङ्कालमालभारिणं, कन्दर्पदर्पदारिणम् । संसारबन्धमोचनं, वन्दामहे त्रिलोचनम् ॥ ८७.२ ॥
तथा- तस्याः स्मरामि सुन्दरं, चन्द्रोपमानमाननम् । कन्दर्पचापमगुर-, भ्रूविभ्रमोपशोभितम् ॥ ८७.३ ॥ __तथा-तृष्णां त्यज धर्म भज, पापे हृदयं मा कुरु । इष्टा यदि लक्ष्मीस्तव, शिष्टाननिशं संश्रय ।। ८७.४ ॥ इत्यादि ।। ८१६ ।।
संग्रहरूपेण षोडशं प्रकारमाह- अन्यद् वितानमिति । सूत्रं व्याख्यातिउक्ताद् वक्ष्यमाणाच्चेति- अष्टाक्षरपादस्य च्छन्दसो ये प्रकारा उक्ताः, ये च तृतीयाध्याये वक्ष्यन्ते तेभ्योऽन्यानि यानि अष्टाक्षरपादानि समवृत्तानि तानि सर्वाणि विताननाम्ना व्यवहरणीयानीत्यर्थः । अन्यरपि पिङ्गलादिभिरियमेव व्यवस्था कृता, तत्र हि समानी-प्रमाणीभेदेन प्रकारद्वयमेवोक्त्वा "वितानमन्यत्" [अ० ५, सू०-८ ] इत्युक्तम्, व्याख्यातं च हलायुधेन- आभ्यां समानी-प्रमाणीभ्यामन्यदष्टाक्षरपादं छन्दो 'वितानं' नामेति, उदाहृतं च तत्र"कङ्कालमालमारिणम्" इत्याद्यग्रे निर्दिश्मानं पद्य त्रयम् । __ तत्र स्वकृतमुदाहरणं पूर्वमाह- यथा- त्वयि तेजोभिरिति- हे नाथ ! त्वयि- भवति, तेजोभिः- स्वप्रभामिः, इदं- प्रत्यक्षवति, अशेष- सकलं, जगत्- विश्वम्, उद्योतयति- प्रकाश्यति सति, इदानीं- संप्रति, एषः-- पुरोऽवलोक्यमानः, सविता- सूर्यः, मुधव- व्यर्थमेव, उदेति- उदयं गच्छति ।