SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० ८५-८६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ६३ ऋषिशरीरम्, गुणलयनी- जवनिका न, गुणलयन्यपि गुरुभि:- महद्भिः, गुण:रज्जुभिः, चिता, स्फीता भवति, रजःपुञ्चनिवारिका साध्वी च भवतीति तस्या एव वर्णयितुं प्रकृत्वं प्रतीयते, तामपन्हुत्य अप्रकृताया मुनितनोस्तादृश्याः स्थापनमित्यपन्हुत्यलङ्कारोऽत्र । 'गु[1] रू[1]गु[1]ण[1]चि[1]ता[s]स्फी[s]ता[s]' इति लक्षणसङ्गतिः ।। अ० २, सू०-८४ ॥ सौ ल्गौ मही ॥५॥ ससलगाः । यथा- भृशमात्मवतः कला, ननु यस्य परिस्फुटाः । स हि काञ्चनपुष्पिता, सकलां चिनुते महीम् ।। ८५.१॥ चतुर्दशं प्रभेदमाह- सौ ल्गौ महीति । सौ ग्लावित्यस्यार्थमाह- ससलगाः इति- सगणद्वयम् ॥॥s, लघुः ।, गुरुश्च [s]' इत्येवंप्रकारवर्गविहिताः पादा यस्य तत् 'मही'नामकमनुष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथाभशमिति-यस्य आत्मवतः- स्थिरचित्तस्य जनस्य, कला:-विविधज्ञानमात्राः, भृशम्- अत्यर्थं, परिस्फुटा:- स्पष्टीभूताः, 'ननु' इति कोमलामन्त्रणे निश्चये वा, स- जनः, काञ्चनपुष्पिता- सुवर्णकुसुमैश्वितां, वित्तपूर्णामित्यर्थः, सकलांसमग्रा, महीं- वसुमतों, संचिनुते- अवचितवित्तां करोति । सकलकलानिपुणस्य जनस्य कृते सकला पृथ्वी समभिलषितपूरिका भवतीति तात्पर्यम् । भृ[1]श[1]मा[5]त्म[1]व[1]तः[s], क[1]ला[s]' इतिलक्षणसङ्गतिः ॥ अ० २, सू०-८५॥ नौ गौ रतिमाला ॥८६॥ ननगगाः । यथा- ततिरिह करिणां ते, क्षरदुरुमदवारिः। नृपवर ! जलदानाम्, इव विचरति माला ।। ८६.१ ॥ पञ्चदशं प्रकारमाह-नौ गौ रतिमालेति । नौ गावित्यस्यार्थमाह-ननगगाः इति- नगणद्वयं ॥,1, गुरुद्वयं च ' इत्येवंप्रकारैर्वर्णविहिताः पादा यस्य तत् ‘रतिमाला'नामकमनुष्टुब्जातिच्छन्द इत्यर्थः। उदाहरति- यथाततिरिहेति-हे नृपवर !- राजश्रेष्ठ !, क्षरदुरुमदवारि:-क्षरत्- स्यन्दमानम्, उरु- अधिकं, मदवारि- मदजलं यस्याः सा, ते-तव, करिणां- हस्तिनां,
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy