SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ६२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ८३-८४.] नामान्तरमाह- मत्तचेष्टितमिति भरतः इति, तथाहि तल्लक्षणम्____ "चतुर्थं च द्वितीयं च, षष्ठमष्टममेव च । गुरुण्यष्टाक्षरे पादे, यत्र तन्मत्तचेष्टितम् ।।" इति [भ० ना० शा० १५।२०.] ॥ अ० २, सू०-८२. ।। रजौ ग्लौ समानी ॥३॥ रजगलाः । यथा- रागरोषमोहदोष-, दारुदावपावकस्य । तीथिकः समं जिनस्य, नो समानिका कलापि ॥ ८३१॥ द्वादशं प्रकारमाह- "र्जा ग्लौ समानी" इति । र्जी ग्लावीत्यस्यार्थमाहरजगलाः इति- 'रगणः ऽ।ऽ, जगणः ।।, गुरु: 5, लघुः ।' इति प्रकारवर्ण विहिताः पादा यस्य तत् 'समानी'नामकमनुष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- रागदोषेति- रागरोषमोहदोषदारुदावपावकस्य- रागः- आसक्तिः, रोष:- क्रोधः, मोहः- अज्ञानं वैचिन्त्यं वा, तदात्मका ये दोषाः, त एव दारूणि- काष्ठानि, तत्र दावपावकस्य- दावाग्निरूपस्य, दाहपावकस्येति पाठेतुतेषां दाहेऽग्निस्वरूपस्येत्यर्थः । जिनस्य, तीथिकै:- अन्यः संप्रदायप्रवतक: समं- सह, समानिका- तुल्या, कलाऽपि- मात्राऽपि, नास्तीति सर्वेभ्यस्तस्य श्रेष्ठत्वमिति भावः । 'रा[s]ग[1] रो[s]ष[1] मो[1]ह[1]दो[s]ष[0]' इति लक्षणसमन्वयः ।। अ० २, सू०-८३ ।। न्सौ गौ गुणलयनी ॥८४॥ नसगगाः । यथा- गुरुगुणचिता स्फीता, परिहृतरजःपुआ। मुनितनुरियं साध्वी, न गुणलयनी साधो ! ।।८४.१॥ त्रयोदशं प्रकारमाह-न्सौ गौ गुणलयनीति । न्सौ गावित्यस्यार्थमाहनसगगाः इति- 'नगणः ॥5, सगणः ॥5, गुरुद्वयम् ss' इत्येवंप्रकारवर्गविहिताः पादा यस्य तत् 'गुणलयनी'नामकमनुष्टुब्जातिच्छन्द इत्यर्थः । उदाहरतियथा-गुरुगुणेति-हे साधो ! गुरुगुणचिता- गुरुभिः- श्रेष्ठः, गुणः- शमादिभिः, चिता- व्याप्ता, स्फीता-सुसंस्कृता,परिहृतरजःपुञ्जा-परिहृतं- दूरीकृतं, रजःपुलं- रजोगुणसमूहः पापसमूहो वा यया तादृशी, साध्वी, इयं, मुनितनु:
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy