________________
[अ० २, सू० ८२. ] सवृत्तिच्छन्दोऽनुशासनप्रधोते
1
दशमं प्रभेदमाह - ज गौ सिहलेखेति । ज गाविति पदद्वयस्यार्थमाहरजगगाः इति - 'रगण: SIS, जगण : ISI, गुरुद्वयम् SS' इत्येवंप्रकारैर्वर्णैः कृताः पादा यस्य तत् 'सिंहलेखा' नामक मनुष्टुब्जातिच्छन्द इत्यर्थः । उदाहरतियथा- पर्णपातेति - पर्णपातमात्रेण - कूचित् पतत्पत्रस्य शब्दं श्रुत्वा तम्मात्रेण - केवलेनैव तेन भीत ! - त्रस्त !, कृष्णसारपोत ! - कृष्णसारस्य- मृगविशेषस्य, पोत ! - पुत्र !, तात ! - वात्सल्यभाजन ! महात्मन् ! - अक्षुद्र !, कि विलम्बसे ? - कुतोऽग्रे न चलसि त्वं सिंहले खां - केसरिगणनां - [ प्रायः कश्चित् सिंहोऽत्र तिष्ठति तस्यैव पदशब्दोऽयं किमिति शङ्कां ] जहीहि - त्यज । अत्र प [S] [] प [s]त[1] मा[5]त्र [1] भी [s]त! [s]' 'कृ[s]ष्ण [1] सा[5]र[ 1 ] पो [s] त ! [ 1 ] ता [s] त ! [s]' इत्युभयत्रापि पादान्तस्य लघुत्वेऽपि "वाऽन्ते ग्वक्रः” [ १-६ ] इति सूत्रानुसारं बैकल्पिकगुरुत्वमाश्रित्य लक्षणसंगतिर्बोध्या ॥ अ० २, सू० ८१ ॥
६१
जौ लगौ प्रमाणी ॥८२॥
जरलगाः । यथा— तव प्रभातुमिच्छतां यशश्चुलुक्य भूपते ॥ समग्रमानजित्वरी, जगन्त्रयी प्रमाण्यभूत् ।। ८२.१ ।। मत्तचेष्टितमिति भरतः ।। ६२.१ ॥
एकादशं प्रकारमाह- ज्रौ लगौ प्रमाणीति "त्रौ लगौ" इत्यस्यार्थमाहजरलगा : इति - 'जगण: [1], रगण: SIS, लघु: [ 1 ], गुरुश्च [s] ' इति तादृशैवर्णैः : कृताः पादा यस्य तत् 'प्रमाणी' नामक मनुष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति यथा - तवेति - हे चुलुक्यभूपते ! तव यश:- कीर्ति, प्रमातुमिच्छतां - परिच्छेतुमभिलषतां कृते, समग्रमानजित्वरी - सर्वविधप्रमाणमूर्धन्या, जगन्त्रयीत्रैलोक्यमेव, प्रमाण्यभूत् - प्रमाणतां गता, अप्रमाणं प्रमाणं समपादीति प्रमाण्यभूत् इति व्यन्तता प्रमाणीशब्दस्येति तस्य क्रियया सह समासादैकपद्यम्, यद्वा 'प्रमाणी अभूत्' इति पदद्वयम् प्रमीयतेऽनयेति प्रमाणी, एवंविधा जगन्त्रयी, अभूत् - जातेत्यर्थः । तव यशः कियत्पर्यन्तं व्याप्तमिति जिज्ञासमानानां कृते, तस्य त्रिलोकीव्याप्त त्वेन सैव प्रमाणतां यातेत्यर्थः । ' त [1] [s], प्र[1] मा[5]तु[\]मि[ऽ]च्छ[।]तां[s]' इति लक्षणसमन्वयः सर्वत्र पादेषु ।। अस्य