________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ८०-८१.] अष्टमं प्रकारमाह- "म्नौ गौ हंसरुतम्" इति । म्नौ गाविति पदद्वयार्थमाह- मनगगाः इति- 'मगणः ऽऽऽ, नगणः ॥, गुरुद्वयम् ऽ' इत्येवंरूपर्वणः कृताः पादा यस्य तत् हंसरुतं नामानुष्टुब्जातिच्छन्द इत्यर्थः । उदाहरतियथा-मञ्जीरेति-मञ्जीरयोः- नूपुरयोः, क्वणितस्य- ध्वनितस्य, योग्याम्अभ्यासं, श्रवणभोग्यां- कर्णपेयां, कुर्वाणं- विदधत्, एतत्- अग्रे श्रयमाणं, हंसरुतं-हंसानां वचनम्, यूना- तरुणानां, मनांसि- चेतांसि, आदत्ते- कर्षयति, बत- इति खेदे । हंसरुतं श्रुत्वा कान्तापादस्थितमजीरध्वनि स्मरन्तो युवानस्तत्राकृष्टाः सन्तः खेदमनुभवन्तीत्यर्थः । 'म[5] जी[s]र[5] @[1]णि[1]त[1]यो[s]ग्यां[s]' इति लक्षणसमन्वयः । अ० २, सू० ७६ ॥
न्जौ ल्गो ललितगतिः ॥८॥ नजलगाः । यथा- मणिरसनास्वनिताद्, अनुसतहंसकुलैः। श्रितमिव शिष्यपदं, ललितगतौ सुतनोः ॥ ८०.१॥
अनुष्टुभ एव नवमं प्रभेदमाह- जो ल्गौ ललितगतिरिति । न्जौ ल्गावित्यस्यार्थमाह- नजलगाः इति- 'नगणः ॥, जगणः ।।, लघुः ।, गुरुश्च । इत्येवंरूपर्वणैः कृताः पादा यस्य तत् 'ललितगति'नामकमनुष्टुजातिच्छन्द इत्यर्थः । उदाहरति- यथा- मणिरसनास्वनितादितिसुतनो:- ललिताङ्गयाः, मणिरसनास्वनितात्- मणिनिर्मितायाः काञ्च्याः शब्दात् हेतोः, अनुसृतहंसकुल:- अनुगामिहंसगणः, लणितगतौ- सविलासगमने, शिष्यपदम्- अन्तेवासिस्थानं, श्रितमिव- प्राप्तमिव ! मणिरसनानादं श्रुत्वा तदनुकूलकूजनशिक्षार्थ हंसगण अस्याः सुतनोरनुसरणं करोति, यथा शिष्या गुरुमनुसरन्ति, ततश्च तैः शिष्यत्वमिव प्राप्तमित्युत्प्रेक्षते कविः । 'म [1]णि[1]र[1]स[1] ना[s] स्व[1]नि[1]ताद्[s]' इति लक्षणसमन्वयः सर्वत्र पादेषु बोध्य: ॥ अ० २, सू० ८० ॥
ओ गौ सिंहलेखा ॥१॥ रजगगाः । यथा- पर्णपातमात्रभीत !, कृष्णसारपोत ! तात ! किं विलम्बसे महात्मन् !, स्वं जहीहि सिंहलेखाम् ।। ८१.१॥