SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० ७८-७९.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते इति लभ्यते, पादान्ते विरामस्तु स्वाभाविक एव “यतिः सर्वत्र पादान्ते" इति कारिकया प्रतिपादित एव । तथा चोदाहरति- यथा- शीतरुजेतिशीतरुजा- जाड्यक्लेशेन, अन्योऽन्यरणद्दन्तरवै:- परस्परकटकटाशब्दं कुर्वतां दन्तानां शब्दः कारणभूतैः, विस्वरकं- विकृतोदात्तादिस्वरवद् यथा स्यात् तथा, साम- सामवेदं, पठन्- अधीयानो, माणवक:- बटुः, यत्र- यस्यां पुरि, शुक:- कीरैः, अशासि- अनुशिष्टः- किमेवं विस्वरं करोषीति तजित इत्यर्थः, सततशुद्धवेदाध्यनाध्यापनश्रवणात् समुत्पन्नवदुष्पाः शुका अपि यत्र सन्ति तत्रान्येषां सचेतसां मनुजानां कीदृशी विद्यापारगामितेति किं वर्णनीयमिति भावः । अत्र 'शी[s]त[1] [1]जा[5]न्यो[s]न्य[1]र[1]णत्[s]' इत्येवं लक्षणसमन्वयः ॥ अ० २, सू०-७७ ॥ गौ ल्गौ नाराचम् ॥७८|| तरलगाः । यथा-- दुरवैरिदन्तिनां, कुम्भस्थलेषु निश्चलः । त्वत्कोतिकेतुवंशवन्, नाराच एष शोभते ॥ ७८.१॥ सप्तमं प्रकारमाह- त्रौ ल्गौ नाराचमिति । 'त्रौ ल्गो' इति पदद्वयं व्याख्याति- तरलगाः इति- 'तगणः ऽऽ, रगण: sis, लघुः ।, गुरुः ऽ' एभिवर्णः- ईदशैर्वर्णः कृताः पादा यस्य तत् नाराचं नामानुष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा-दुर्वारेति- दुरवैरिदन्तिनां- दुर्वारा:- दुःखेन वारयितुं शक्या ये वैरिणां- शत्रूणां, दन्तिनो- गजास्तेषां कुम्भस्थलेषु- मस्तकाप्रभागेषु, निश्चल:- दूरं निखातत्वेन स्थिरः, एष- प्रत्यक्षदृश्यमानः, नाराच:तव बाणः, त्वत्कीतिकेतुवंशवत्- तव कीर्त्याः सूचक: केतु:- ध्वजः- चिह्नत्वत्कीतिकेतुध्वजः, तस्य वंशवत्- वेणुदण्डवत्, शोभते- विराजत इत्यर्थः । तव वैरिणां गजकुम्मेषु स्थिरा बाणास्तव कीत्ति सूचयन्तीति तात्पर्यम् । 'दु [s];[s]र[1][s]रि[1]द[s]न्ति[1]नां[s]' इति लक्षणानुगतिः ॥ अ० २, सू० ७८ ॥ म्नौ गौ हंसरुतम् ॥७॥ मनगगाः । यथा- मजीरकणितयोग्यां, कुर्वाणं श्रवणमोग्याम् । आदत्ते बत मनांसि, यूनां हंसरुतमेतत् ॥ ७६.१ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy