SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ८८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ७६-७७.] त्रौ ल्गौ सुमालती ॥७॥ नरलगाः । यथा- परिहतोत्पलावली, कनककेतकी तथा । भ्रमर मालतीकृते, तदिति सा सुमालती ॥ ७६.१ ॥ पञ्चमं प्रभेदमाह- त्रौ ल्गौ सुमालतीति । 'नौ ल्गौ' इति पदद्वयार्थमाह-नरलगाः इति- 'नगणः ।।।, रगण: 5Is, लघुः ।, गुरु: ' इत्येवमष्टभिवणैः कृताः पादा यस्य तत् ‘सुमालती'नामकमनुष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा-परिहतेति- हे भ्रमर ! मालतीकृते- मालतीपुष्परसपानसमीया [ त्वया ] उत्पलावली- कमलपङ्क्तिः , परिहृता- परित्यक्ता, तथा कनककेतकी- सुवर्णकेतक्यपि [परिहृता], तदिति- तस्मादेव हेतोः, सा सुमालती सर्वतः शोभना मालतीति ख्यातेत्यर्थः । 'प[i]रि[][]तो[5]त्प[i]ला[s]व[1]ली[5]' इत्येवंक्रमेण सर्वत्र पादेषु लक्षणसमन्वयः ॥ अ० २, सू०-७६ ॥ म्तो ल्गौ माणवकं धैः ॥७७॥ मतलगाः। धैरिति "व्यादिर्गादिः" [१-१७ ] इति वचनाचतुमिरिति लम्यते । यतिरिति चोपतिष्ठते, तेन चतुभिर्यतिरिति सिद्धम् ॥ यथा- शीतरुजान्योऽन्यरणद्, दन्तरवैविस्वरकम् । साम पठन माणवको, शासि मुहुर्यत्र शुकः ॥ ७७.१॥ षष्ठं प्रभेदमाह- स्तौ ल्गौ माणवकं घेः। भ्तौ ल्गाविति पदद्वयस्यार्थमाह- भतलगाः इति- 'भगणः ।, तगण: , लघुः ।, गुरुः ऽ' इत्येवंरूपर्वणः कृताः पादा यस्य तत् माणवकं नामानुष्टुब्जातिच्छन्द इत्यर्थः । रिति पदस्यायं तस्य वाक्यान्वयित्वं ज्याचष्टे-घेरिति "त्र्यादिर्गादिः" इति वचनादित्यादि- प्रथमाध्याये सप्तदशसूत्रं "त्र्यादिर्गादिः” इति, तेन च गकारादिव्यञ्जनानां स्वानुक्रमगतसंख्याबोधकत्वमनुशिष्टम्, "श्रव्यो विरामो यतिः" इति प्रथमाध्याये षोडशसूत्रेण यतेः परिभाषोपदिष्टा, तृतीयान्तगादिपदनिर्देशस्थले च 'यतिः' इत्यस्योपस्थितिरिति वृत्तौ प्रतिपादितम्, तथा चेहाऽपि परित्यस्यानन्तरं यतिरित्युपतिष्ठते। तथा च योऽर्थो लब्धस्तमाहतेन चतुभिर्यतिरिति सिद्धमिति, एवं च पादमध्ये चतुर्थवर्णान्तेऽपि विराम
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy