________________
[अ० २, सू० ७५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते गौ" इति सरलया रीत्यापि सिद्धत्येवेति किमिति वक्रगतिरियमाश्रितेति शङ्कायामाह- मौ गाविति तु न कृतं चतुभिश्चतुभिर्यथा विरतिविज्ञायेतेति, अयमाशयः- मो गाविति कथनेन यद्यपि अभीष्टार्थबोधः सम्भवतिः, किन्तु प्रकृतपाठप्रयोजनं यत् गुरुचतुष्टयस्य सह पठनीयत्वं, मध्ये च किञ्चिद् विश्रम्यापरचतुष्टस्य पठनीयत्वमिति विरामः [ यतिः ] यथा- कथनं विनापि विज्ञायतेति उदाहरति- यथा- सत्यमिति- भोगा:- विषयाः, रम्याभोगा:- रम्य आभोगः परिपूर्णता येषां तादृशाः भवन्तीति, सत्यं- यथार्थम्, कान्ताः- वनिताः, कान्ताः- कमनीया भवन्तीत्यपि सत्यम्, राज्यं- नृपत्वम्, प्राज्यं-प्रभूतं परितोषकारणमित्यपि सत्यम्; [ किन्तु ] प्राज्ञा; [एमिः] किं कुवन्तु- कस्मै प्रयोजनाय एतत् सर्वं परिगृह्णन्तु, यस्मात्- हेतोः, आयु:जीवनकाल:, विद्युन्मालालोलं- सौदामिनीपङ्क्तिवच्चपलम् । आयुषः स्थिरत्वे हि कान्तादीनां रमणीयत्वमनुभवितुं शक्यते तदेव च प्रा विद्युदिव चपलमिति प्रत्यक्षीक्रियते, ततश्चैतत् सर्व परित्यज्यते ते स्थिरसुखप्राप्तये पुण्यमेव संचिन्वन्तीत्यर्थः। 'स[5]त्यं[s], र[5]म्या[s] भो[5]गाः[5]' इति सर्वगुरुत्वं प्रतिपादमनुगतं द्रष्टव्यम् । अ० २, सू०-७४ ।।
मो गौ चित्रपदा ॥७५।। यथा- व्योमनि सागरतीरे, पर्वतश्रृंगनिकुले। भ्राम्यति भीमकुलेन्दो, चित्रपदा तव कीतिः ॥ ७५.१ ॥
चतुर्थ प्रभेदमाह- भौ गौ चित्रपदेति- भगणद्वयं गुरुद्वयं च ॥ ॥ s' इत्येवंप्रकारवर्णैः कृताः पादा यस्य तत् चित्रपदानामानुष्टुब्जातिछन्दः । उदाहरति- यथा- व्योमनीति- हे भीमकुलेन्दो!- भीमभूमिपवंशशशाङ्क !, चित्रपदा- चित्राणि पदानि स्याद्यन्तत्याद्यन्तरूपाणि चरणनिक्षेपरूपाणि वा यस्यास्तादृशी, तव-भवतः, कीर्तिः-प्रशस्ति:, व्योमनि- आकाशे, सागरतीरेसमुद्रतटे, पर्वतशृङ्गनिकुञ्ज- गिरिशिखरस्थितलतागुल्मे च, भ्राम्यति- पर्यटति, सर्वत्र सा जनर्गीयत इत्यर्थः। अत्र स्त्रीत्वेनाध्यवसितायाः कीर्त्याः सर्वजनाकर्षणाथं रुचिरपादन्यासपूर्वकं परिभ्रमणं तस्याः स्वैरिणीत्वं व्यञ्जयति । 'व्यो[म[1]नि[1], सा[5]ग[1] []ती[s]रे[5]' इत्येवं रीत्या लक्षणसमन्वयः ।। अ० २, सू०-७५ ॥