SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ८६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू०७३-७४.] मित्यर्थः । 'दे [s] [s], त्व [ 1 ]यि [S], क्ष [ 1 ] मा [S]ना [S]थे [s]' इति लक्षणसमन्वयः ॥ अ० २, सू० - ७२ ॥ र्यो ल्गावनुष्टुप् ॥७३॥ रयलगाः । यथा -- कुर्वते विवेकात ये विरागहेतुष्वपि । ते पठन्ति चित्रं मुहु-, बलिशा अनुष्टुबुधिया ॥ ७३१ ॥ द्वितीयं प्रभेदमाह - "र्यो ल्गावनुष्टुप्” इति । र्यो ल्यावित्यस्यार्थ - माह - रयलगाः इति - 'रगण: SIS, यगण: ISS, लघु: [ 1 ], गुरुश्व [S]' इत्येवंरूपैर्वर्णैः कृताः पादा यस्य तत् 'अनुष्टुप् ' नामक मनुष्टुब्जातिच्छन्दः । उदाहरति- यथा - कुर्वते इति ये विरागहेतुषु वैराग्यकारणेषु सत्स्वपि, विवेकारति- विवेके - वस्तुत्वविचारे, अरतिम् - अननुरागं कुर्वते, ते बालिशाःजडा:, चित्रं नामोष्णिग्जातिच्छन्दः, अनुष्टुब्धिया- अनुष्टुब्जातिच्छन्दोबुद्धघा पठन्ति येषां विवेककारणे सत्यपि न विवेकस्तैश्छन्दो जातिभेदोऽपि न विवेचयितुं शक्यत इति भाव: । 'कु [S]र्व [ 1 ] ते[s], वि [ 1 ]वे [5] का[5]र[1]ति[s]' इत्थं लक्षणसमन्वयोऽवसेयः ॥ अ० २, सू०-७३ ।। गीर्गी विद्युन्माला ॥७४।। " समानेनेकादिः " [१४] इति वचनाद् गोरिति गचतुष्टयं गृह्यते । मौ गाविति तु न कृतं चतुमिचतुभिर्यथा विरतिर्ज्ञायेतेति । यथा- सत्यं रम्याभोगा भोगाः, कान्ताः कान्ताः प्राज्यं राज्यम् । किं कुर्वन्तु प्राज्ञा यस्माद्, आयुविद्युन्मालालोलम् ।। ७४.१ ।। तृतीयं प्रभेदमाह - गीर्गीविद्युन्मालेति । पदार्थबोधायाह- समानेनैकादिरिति वचनादित्यादि- समनिनैकादिरिति प्रथमाध्यायचतुर्थसूत्रेण यावतिथः समानतावतिथस्य गादेर्ग्रहणं भवतीत्युक्तम्, तथा च गीरिति पदे चतुर्थः समान इति चत्वारो गाः [ गुरवः ] उच्यन्ते, तदाह- गीरिति गचतुष्टयं गृह्यत इति, तथा चाष्टभिर्गुरुवर्णैः कृताः पादा यस्य तत् 'विद्युन्माला' नामकमनुष्टुब्जातिच्छन्द इत्यर्थः । ननु पूर्वप्रकृतानुसारं गणेनापि प्रकृतार्थबोध: सम्भवति, तथा च मगणद्वयं गुरुद्वयं चेति बोधनाय "मौ
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy