SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ८५ [अ० २, सू० ७१-७२.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते स्रौ गो दीप्ता ||७१।। सगणरगणो गुरुश्च । यथा- नवसिन्दूरभासो, मुकुलाः किंशुकेऽमी । ध्रुवमाग्नेयबाणाः, रतिनाथस्य दीप्ताः ॥ ७१.१ ॥ ७॥२०॥ विशं प्रभेदमाह- स्त्रौ गो दीप्तति । स्रावित्यस्यार्थमाह- सगण-रगणाविति- सगणः ।।७, रगण: Is, गुरुश्चऽ' इत्येवंप्रकारैर्वर्णेविहिताः पादा यस्य तत् 'दीप्ता'नामकमुष्णिग्जातिछन्द इत्यर्थः । उदाहरति- यथा- नवसिन्दूरेति- किंशुके- पलाशवृक्षे, अमी- दूरे दृश्यमानाः, नवसिन्दूरभास:- नवाःनूतनास्तथा, सिन्दूरस्य भा इव भा येषां ते, मुकुला:- कोरकाः, रतिनाथस्यकामदेवस्य, दीप्ता:-ज्वलन्तः, आग्नेयबाणा- अग्निदेवताः, अतिदाहकाः, शराः, इति ध्र वं- निश्चितम् । किंशुककोरकाणां बसन्तसमयस्मारकाणामत्युद्दीपकतया कामबाणत्वेनोत्प्रक्षेयम् । 'न[1] व[1] सि[5]न्दू[s]र[1]भा[s]सः [s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-७१ ॥ ___ एवं सप्ताक्षरपादाया उष्णिगजातेविंशतिर्भेदाः प्रतिपादिताः, प्रस्तारक्रमणे तु १२८ प्रभेदा अस्याः, तथाह्य तं भरतनाट्यशास्त्रे- "शतं विंशतिरष्टौ च वृत्तान्युष्णिह्यथोच्यते'' ।। [१४।५५] ।। अनुष्टुमि त्रौ गौ विमा ॥७२॥ तरगगाः । यथा- देव ! त्वयि क्षमानाथे, क्षीणान्यभूभुजां कीतिः । पूर्वाद्विभाजि मार्तण्डे, का वा विभास्तु ताराणाम् ॥ ७२.१ ॥ अथाष्टाक्षरपादाया अनुष्टुब्जातेः प्रभेदान् वर्णयितुमुपक्रमते- अनुष्टिभि त्रौ गौ विभेति । त्रौ गावित्यस्यार्थमाह- तरगगाः इति- तगणः ।, रगण: 151, गुरुद्वयम्' इत्येवंप्रकारैर्वर्णविहिताः पादा यस्य तत् 'विभा'नामकमनुष्टुब्जातिच्छन्द इत्यर्थः । उदाहरति- यथा-देव ! त्वयोति- हे देव !राजन् !, त्वयि- भवति, क्षमानाथे- पृथ्वीपतौ सति, अन्यभूभुजां- त्वदितरराजानां, कीर्ति:- प्रशस्तिः, क्षीणा- नष्टा, प्रकृतमथं समर्थयति- मार्तण्डेसूर्ये, पूवाद्रिभाजि-उदयाचलमारूढे सति, ताराणां- नक्षत्राणां, विभा-प्रभा, का अस्तु- सूर्योदये सति ताराणां प्रभा नश्यतीति यथा नाश्चर्यकारणं तथा त्वयि राजनि विद्योतमाने सामान्यनृपाणां कीर्ति: क्षीयत इति न किमप्याश्चर्य
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy