________________
८४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ६९-७०.] कूतम् । 'प[]ति [1]वि[1]र[1]हे[s], [s]या[s]न्य[s]' लघोरप्यन्त्यस्य "वाऽन्ते ग् वक्रः" इति गुरुत्वाल्लक्षणसंङ्गतिः ।। अ० २, सू०-६८ ।।
यसौ गो मुदिता ॥६६॥ यगणसगणो गुरुश्च । यथा- लतानां कलिकाभिः, प्ररोहत्पुलकेव । वसन्तागमनेऽस्मिन, वनश्रीर्मुदितेयम् ॥६९.१॥
अष्टादशं प्रकारमाह- यसौ गो मुदितेति । यसावित्यस्यार्थमाह- यगणसगणाविति- 'यगणः ।ऽऽ, सगणः ।।5,गुरुश्च ऽ' इत्येवं प्रकारैः सप्तभिर्वर्णैः कृताः पादा यस्य तत् मुदिता नाम उष्णिग्जातिच्छन्द इत्यर्थः । उदाहरति-यथा-लतानामिति- अस्मिन्- प्रकृते, वसन्तागमने- वसन्तऋतुप्रवृत्ती, लतानां- वल्लीनां, कलिकाभिः- पुष्पकोरकः, प्ररोहत्पुलका- उद्भिद्यद्रोमाञ्चा, इयं- प्रत्यक्ष दृश्यमाना, वनश्री:- नवनायिकात्वेनाध्यवसिता वनशोभा, मुदिता- प्रसन्ना इव, इत्युत्प्रेक्ष्यत इत्यर्थः । नायिका काचिन्नायकमागतमभिलक्ष्य यथोद्गतरोमाञ्चा भवति तथैवेयं वनशोभाऽपि नायकं वसन्तमागतं वीक्ष्य कलिकारूपरोमाञ्चर्युक्ता स्वमोदं प्रकटयतीति भावः । 'ल[1]ता[s]नां[s], क[1]लि[1] का[s]भिः[5]' इति लक्षणसमन्वयः ॥ अ २, सू०-६६ ॥
त्रौ गो मनोज्ञा ॥७०॥ नगणरगणो गुरुश्च । यथा- भुवनजत्रमन्त्रं, रतिपतेरधीते। पिकगिरा मधुश्री-रतिमनोज्ञयाऽसौ ॥७०.१॥
ऊनविशं प्रभेदमाह- त्रौ गो मनोजेति । ब्रावित्यस्यार्थमाह- नगणरगणाविति-'नगणः ।।।, रगण: Is, गुरुश्च [s]' इति तैः सप्तभिर्विरचिताः पादा यस्य तत् 'मनोज्ञा'नामकमुष्णग्जातिच्छन्द इत्यर्थः । उदाहरति-यथाभवनेति- असो- पूर्ववणिता, मधुश्री:- वासन्ती शोभा, रतिपते:-कामस्य, भुवनजंत्रमन्त्रं- संसारविजयशीलं मन्त्रम्, अतिमनोज्ञया- परमाह्लादिकया, पिकगिरा- कोकिलारावेण, अधीते- अभ्यस्यतीत्यर्थः । कोकिलकुजनश्रवणेन सकलं भुवनं कामस्य वशंगतं भवतीति प्रसिद्धिः, सैव प्रकृते चारुतया रूपकेण वर्णिता । 'भु[1]व[1]न[1] जै[5]त्र[1]म[5]न्त्रं[s]' इति रूपेण लक्षणानुगतिः ॥ अ० २, सू०-७०॥