________________
[अ० २, सू० ६७-६८ . ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
८३
लान्तःकरणो भवेत्यर्थः । ‘स[]म[1]श [s]त्रु []मि[s]त्र []तां[5]' इति लक्षणसंगतिः ।। अ० २, सू०-६६ ॥
जौ गः सुभद्रा ||६७।।
जगणरगणी गुरुश्च । यथा - कुमारपाल ! देव, त्वदीयविक्रमेण । महौजसः सुभद्रा, पतेः स्मृतं न केन ।। ६७.१ ॥
1
षोडशं प्रकारमाह - “ज्ज्रौ गः सुभद्रा" इति । त्राविति पदं व्याख्याति - जगण - रगणा विति- 'जगण: 15), रगण: SIS, गुरुश्च 5' इत्येवंरूपै - र्वर्णैर्विहिताः पादा यस्य तत् सुभद्रा नामकमुष्णग्जातिच्छन्द इत्यर्थः । उदाहरति-यथाकुमारपालेति - हे कुमारपाल ! - तन्नामक !, देव !- राजन्, त्वदीयविक्रमेण - तव पराक्रमेण, महौजसः -- प्रचुरपराकमस्य, सुभद्रापतेः - अर्जुनस्य, केन जनेन, न स्मृतं - न ध्यातम्, तव पराक्रमं दृष्ट्वा सादृश्योद्वोधित संस्कार: सर्वोपि जनोऽर्जनं स्मरत्येवेत्यर्थः। 'कु [ । ]मा [S]र [5] [5]ल[1], दे[s]व[1]' इत्येवं सर्वत्र पादे लक्षणसङ्गतिः ॥ अ० २, सू० - ६७ ॥
न्यौ गः कुमुद्वती ॥ ६८ ॥
नगणगणी गुरुच । यथा- पतिविरहे यान्य- मुखमपि नापश्यत् । कलयति सा श्लाघाम, इह कुमुदिन्येका ॥ ६८.१ ॥
सप्तदशं प्रकारमाह- न्यौ गः कुमुद्वतीति । न्याविति पदं व्याचष्टे - नगण-यगणाविति - 'नगण: 111, यगण: Iss, गुरुः ऽ' इत्येवंप्रकारैर्वर्णैः कृताः पादा यस्य तत् 'कुमुद्वती' नामक मुष्णिग्जातिच्छन्द इत्यर्थः । उदाहरति- यथापतिविरहे इति - या [ कुमुद्वती], पतिविरहे - पत्युः - चन्द्रस्य, विरहे - वियोगे सति, अन्यमुखं- पतिभिन्न [ सूर्यरूप ] पुरुषमुखम् अपि [ किमुतान्येन सह वार्ता - लापादि, ] न अपश्यात् - नावलोकितवती, इह संसारे, सा, एका अद्वितीया, कुमुदिनी - कुमुद्वती, श्लाघां प्रशंससनीयतां, कलयति - अधिकरोति, पतिरहितानां कुलस्त्रीणां धर्मस्य सम्यक्पालनेन सैवेका प्रशंसाभाजनमित्यभिप्रायः दिवा कुमिदिन्याः सङ्कुचितत्वस्य कविसमयसिद्धत्वेन, सर्वाङ्गसंङ्कोचे च नेत्रस्यापि मुद्रितत्वावश्यंभावेन तया परमुखदर्शनमपि परिह्रियते इति कवेरा