________________
८२
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ६५-६६.]
रमा भवत्येवेत्याकूतम् । 'उज् [5] ज्व [1] ल [ 1 ]नि [1] शा[5]क [1] रा [5]' इति लक्षणसङ्गतिः ।। अ० २, सू०-६४ ॥
नगा मधुकरिका || ६५॥
तगणनगणौ गुरुच । यथा- पान्थ ! श्रय दयितां प्राप्तो मधुसमयः । गायन्त्यनुविटपं, प्रीता मधुकरिकाः ।। ६५.१ ।। वज्रमित्यन्यः ।। ६५.१ ॥
चर्तुदशं प्रकारमाह- नगा मधुकरिकेति । त्नगा इति पदं व्याख्यातितगण - नगणौ गुरुश्चेति- ' तगण: SS), नगण: III, गुरु:ऽ' इत्येवंप्रकारैर्वर्णै विरचिताः पादा यस्य तत् 'मधुकरिका' नामकमुष्णिग्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- पान्थेति - पान्थ ! हे गृहप्रोषित !, मधुसमय:- वसंन्तर्तुः, प्राप्तः - समागतः [ इति हेतोः ] दयितां - कान्तां श्रय- प्राप्नुहि, तस्याः समीपं गच्छेति भावः । वसन्तागमनमेव हेतुनोपपादयति, अनुविटपं- प्रतिवृक्षं प्रतिशाखं वा प्रीताः- मधुपानतुष्टाः, मधुकरिका:- भ्रमर्य:, गायन्ति - गानं कुर्वन्ति, भ्रमरोगानेन वसन्तागमनमभिलक्ष्य तदुद्भवदुःखापानोदाय दयितासमीपगमनं तवोचितमिति भावः । ' पा[S]न्य [s], श्र [1] [ 1 ], द [ 1 ]यि [1] तां [s]' इति लक्षणसमन्वयः सर्वत्र पादेष्ववसेयः । अस्यैव नामान्तरमाह - वज्रमित्यन्य इति - अन्य आचार्य इदमेव वच्चमित्याहेत्यर्थः ॥ अ० २, सू०-६५ ॥
स्जो गो विमला ॥६६॥
सगणजगणी गुरुश्च । यथा - समशत्रु मित्रता - मवलम्ब्य निर्ममः । मज वीतरागतां विमलात्मको भव ।।६६.१।।
पञ्चदशं प्रकार माह- स्जौ गो विमलेति । स्जाविति पदं व्याख्यातिसगण - जगणाविति - ' सगणः ॥15, जगण: 151, गुरुश्र 5' इत्येवंरूपैर्वणैर्विहिताः पादा यस्य तत् 'विमल' नामक मुष्णिग्जातिच्छन्द इत्यर्थः । उदाहरतियथा - समेति - समशत्रु मित्रतां - समे- तुल्ये, शत्रुमित्रे यस्य स समशत्रु मित्रः, तस्य भावस्तामित्यर्थः । अवलम्ब्य - आश्रित्य निर्मम:- क्वापि स्वीयत्वबुद्धिरहितः सन् वीतरागतां निःस्पृहत्वं, भज- माश्रय, विमलात्मक:- निर्म
-