________________
[अ० २, सू० ६३-६४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
नौ गो हरिविलसितम् ॥६३॥ यथा- सपदि बलिनृपान्, समिति नियमयन् । प्रथयसि न विभो, नहरिविलसितम् ॥ ६३.१ ॥ चपलेत्यन्ये । द्रुतगतिरिति भरतः ॥ ६३.१ ॥
द्वादशं प्रभेदमाह- "नौ गो हरिविलसितम्" इति । नगणद्वयं ॥ ॥, गुरुश्चऽ' इतिरूपैः सप्तभिर्वर्णैः कृताः पादा यस्य तत् हरिविलसितं नाम उष्णिग्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- सपदीति- हे विभो ! समिति- संग्रामे, बलिनृपान्- बलिनो राज्ञः, सपदि- शीघ्र, नियमयन्वशीकुर्वाणः, त्वम्, हरिविलसितं- सिंहक्रीडाम्, अथ च वामनावतारो यो हरि:- विष्णुः, तस्य लीलां न प्रथयसि- न प्रख्यापयसि, इति न, अपि तु प्रख्यापयस्येव । वामनो हरिः समिति- सभायां, बलिं नृपं यज्ञसदसि पादत्रयमितभूमिदानाय कृतप्रतिशं तदपूर्ती नियमितवान्, इति पौराणिकी प्रसिद्धिः । त्वमपि बलिरिव नृपाः, तान्, बलिनो नृपान् वा समिति- संग्रामे, नियमयसि, इति हरि-विलासमेव प्रकटीकरोषीत्याशयः । अस्य नामान्तरमाह-चपलेत्येन्ये इति- अन्ये आचार्या इदमेवच्छन्द: 'चपला' इत्याहुः । द्रुतगतिरिति भरतः इति- भरत आचार्य इदं छन्दो द्रुतगतिरित्याह । 'स[1][1]दि[1], व[1]लि[][i] पान[s]' इति लक्षणानुगति: सर्वत्र पादेषु द्रष्टव्या ॥ अ० २, सू०-६३ ॥
म्जौ गः शारदी ॥६४|| मगणजगणी गुरुश्च । यथा- उज्ज्वलनिशाकरा, चारकमलाकरा । कस्य न मनोरमा, श्रीर्भवति शारदी॥ ६४.१ ॥
त्रयोदशं प्रकारमाह- म्जौ गः शारदीति । भ्जाविति पदं व्याचष्टेभगण-जगणाविति- 'भगणः ।।, जगण: ।।, गुरुश्च ऽ' इति तैः सप्तभिविरचिताः पादा यस्य तत् 'शारदी'नामकमुष्णिग्जातिच्छन्द इत्यर्थः । उदाहरति- यथा-उज्ज्वलेति- उज्ज्ववलनिशाकरा- उज्जवल:- सुप्रकाश:, निशाकरः- चन्द्रो यस्यां सा, चारुकमलाकरा- चारूणां कमलानां- सुन्दराणां पङ्कजानाम्, आकर:- समूहो यस्यां सा, शारदी- शरतसम्बन्धिनी, श्री:शोभा, कस्य- जनस्य, मनोरमा- चेतोमोदजननी, न भवति- सर्वस्य मनो