________________
८०
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ६१-६२.] भावः । अत्र 'अ[ऽह्नि[1], वि[1] [1]ह[1]त[5]प्ता[5]' इति लक्षणानुगतिः सर्वत्र पादेषु । अ० २, सू०-६० ॥
म्भौ गः सरलम् ॥६१॥ मगणमगणी गुरुश्च । यथा- पापाभ्यासात्कुटिलं, चेतो रोत्रं भजते । शामाभ्यासव्यसनाद्, षम्यं ध्यानं सरलम् ॥ ६१.१ ॥
दशमं प्रकारमाह- म्भौ गः सरलमिति । म्भाविति पदं व्याख्यातिमगणभगणाविति- 'मगण:ऽऽs, भगणः ॥, गुरुः ऽ' इत्येवं सप्तभिर्वर्णैः कृताः पादा यस्य तत् सरलमिति उष्णिग्जातिच्छन्द इत्यर्थः । उदाहरतियथा-पापाभ्यासादिति- पापाभ्यासात्- दुष्कृतसेवनात्, कुटिलं- वक्रतां गतं, चेतः- मनः, रौद्रं-दुर्ध्यानविशेषं, भजते- प्राप्नोति । शास्त्राभ्यासव्यसनात्शास्त्राणां- सदनुशासनानाम्, अभ्यासस्य-सततानुशीलस्य, व्यसनात्-व्यवसायात, धयं- धर्महितं, ध्यानं-चिन्तनं, सरलं- सुगममित्यर्थः । 'पा[s]पा[s] भ्या[5]साद[s], कु[i]टि[]]ल[5' इत्येवं रूपेण सर्वत्र पादेषु लक्षणसङ्गतिः ॥ अ० २, सू०-६१ ॥
म्नौ गश्चित्रम् ॥६२॥ भगणनगणौ गुरुश्च । यथा- कोतिरिह भवतः, कुन्दकुसुमसमा । रअयति हृदयं, चित्रमिदमधिकम् ॥ ६२.१ ॥ ___ एकादशं प्रकारमाह- म्नौ गश्चित्रमिति । म्नाविति पदं व्याख्यातिभगणनगणाविति- 'भगणः ॥, नगणः ॥, गुरु: ऽ' इत्येवंप्रकारर्वणः कृताः पादा यस्य तत् चित्रमिति नाम उष्णिग्जातिच्छन्द इत्यर्थः । उदाहरतियथा-कोतिरिहेति- इह- संसारे, कुन्दकुसुमसमा- माघमासोत्पन्नश्वेतपुष्पसदृशी, भवतः कीर्तिः, हृदयं रञ्जयति- रक्तं करोति, इदम्, अधिकम्अतिशयेन, चिलम्- आश्चर्यम् । स्वयं श्वेताया भवतः रागोत्पत्तिहेतुत्वमाश्चर्यम्, रागश्च वर्णान्तरोत्पादः, स च न श्वेतया कतुं शक्यत इति विरोधाभासः । रागस्याह्लादरूपत्वेन च तत्परिहारः । 'की[5]ति[i]रि[i][i], भ[][]तः[5]' इति लक्षणसङ्गतिः ॥ अ० २, सू०-६२ ॥