SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० ५६-६०.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते मौ गः कलिका ॥५६॥ भगणद्वयं गुरुश्च । यथा- स्पर्शनमात्रवशाद, या मकरन्दमुचा। किं भ्रमर! भ्रमता, सा कलिता कलिका ॥५६.१॥ सोपानमित्यन्यः । भोगवतीति भरतः ॥५६.१॥ अष्टमं प्रभेदमाह- भौ गः कलिकेति- 'भगणद्वयं | , गुरुश्चऽ' इति सप्तभिर्वर्णैः कृतपादं 'कलिका' नाम उष्णिग्जातिच्छन्दः । उदाहरति- यथास्पर्शनमात्रवशादिति- या स्पर्शनमात्रवशात्- सम्पर्कमात्रेण, मकरन्दमुचामकरन्दं पुष्परसं मुश्चतीति [मुलविभुजादित्वात् के.स्त्रियामापि]- मकरन्दमुचा, हे भ्रमर ! भ्रमता- सर्वतोऽटता भवता, सा- तादृशी, कलिका- कुड्मलम्, कलिता- प्राप्ता, किम् ? भ्रमरकलिकान्योक्तया कश्चित् कामुकोऽतिशयसहृदयायाः कस्याश्चित् बालायाः प्राप्ति पृष्टः । 'स्प[5]र्श[1]न [1]मा[s] [1] [1] शात[s]' इति लक्षणानुगतिः । अस्य च्छन्दसो नामान्तरमाह- सोपानमित्यन्यः इति- एतदेवच्छन्दः कश्चित् सोपानमिति व्यवहरतीत्यर्थः । भोगवतीति भरतः इति- भरत आचार्य इदमेव भोगवतीनाम्ना व्यवदिशतीत्यर्थः । नाम्न: परिभाषामात्रत्वमित्युक्तं प्रागेव ।। अ० २, सू०-५६ ॥ म्सौ गो विधुवक्त्रा ॥६०॥ भगणसगणो गुरुश्च । यथा- अह्नि विरहतप्ता, रात्रिमभिलषन्ती। उद्यति विधुबिम्बे, म्लायति विधुवक्त्रा ॥६०.१॥ नवमं प्रकारमाह- सौ गो बिधुवक्त्रेति । 'सो गः' इति पदद्वयं व्याख्याति- भगण-सगणो गुरुश्चेति- 'भगणः ॥, सगणः ।।s, गुरु ऽ' इत्येवं सप्तभिर्वर्णैः कृताः पादा यस्य तत् विधुवक्त्रेतिनामकमुष्णग्जातिच्छन्दः इत्यर्थः। उदाहरति- यथा- अह्नीति- अह्नि- दिवसे, विरहतप्ता- वियोगज्वालया दग्धा, [प्रयो दैनो ग्रीष्म एव तापहेतुरिति बुद्धया] रात्रिममिलषन्ती- रात्रिप्रवृत्तिमिच्छन्ती, विधुवक्त्रा- चन्द्रमुखी, विधुबिम्बे- शशिमण्डले, उद्यति। उदयं गच्छति सति, म्लायति- ग्लानिमधिगच्छति, चन्द्रोदयस्यातिशयमदनोदीपकत्वाद् विरहिण्याः कृतेऽसहनीयत्वमिति तापवृद्धया म्लानिरुचितवेति
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy