________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू० ५७-५८ . ]
त्यर्थः । अत्र 'या [s], ब[1]भू [5] [1], सु[ 1 ] द [5] [5]' इत्येवंरूपेण सर्वपादेषु लक्षणसमन्वयः ॥ अ० २, सू०-५६ ॥
७८
त्सौ गो भ्रमरमाला ॥५७॥
तगणसगणी गुरुश्च । यथा- कुन्वे विचकिले वा, मन्दारकुसुमे वा । प्रीत्या मधुरसाढ्ये, भ्रान्ता भ्रमरमाला ॥५७.१।।
प्रकारमाह - त्सौ गो भ्रमरमालेति । त्साविति ग इति च पदं व्याख्याति - तगण - सगणौ गुरुश्चेति - ' तगण: SSI, सगणः॥ऽ, गुरु ऽ' इत्येवंरूपेवर्णैवहीताः पादा यस्य तत् 'भमरमाला' नामक मुष्णिग्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- -कुन्दे इति- विचकिले - विकसिते, कुन्दे- माघमासोद्भवे पुष्पविशेषे, मन्दारकुसुमे - अर्कपुष्पे वा, मधुरसाढ्य - मधुना - परागेण, रसेन - मकरन्देन च, पूर्णे, प्रीत्या - उभयत्र समानाभिलाषेण, भ्रमरमाला - मधुकरपङ्क्तिः, भ्रान्ता - गतागतलोला, भवतीत्यर्थः । 'कु[s]न्दे [s], वि [ 1 ]च[1] कि [1] [s], वा [s] ' इत्येवं लक्षणसंङ्गतिः ॥ अ० २, सू० -५७ ।। रौ गो हंसमाला ॥५८॥
रगणद्वयंगुरुश्व । यथा - शंवलालीनिराशा, पङ्कजे बद्धवासा । कि बकोटावलीयं हन्त सा हंसमाला ॥ ५८.१ ॥
9
सप्तमं प्रभेदमाह - रौ गो हंसमालेति- रगणद्वयं SIS SIS, गुरुश्च इत्येवंप्रकारंसप्तभिर्वर्णैर्विहिताः पादा यस्याः सा हंसमाला ज्ञेया, तत् 'हंसमाला' नामक मुष्णिग्जातिच्छन्द इत्यर्थः । उदाहरति- यथा - शैवलाली निराशेति - शैवलालीनिराशा - शैवलपङ्क्तौ निःस्पृहा, [ किन्तु ] पङ्कजे- कमले, बद्धवासा - नियतवसतिः, इयं - प्रत्यक्षदृश्यमाना, बकोटावली - तुच्छबकपङ्क्तिः, किम ? - प्रश्ने, उत्तरयति - हन्त - खेदः [ भवान् बक-हंसयोरन्तरं न वेत्तीति खेद प्रकाशकारणम् ], सा हंसमाला - हंसपङ्क्तिः । अत्र बकोटाशब्दोऽपरिचितः प्रायः देश्य इति प्रतिभाति । 'बलाकावली' इति पठितव्ये बकोटावलीति भ्रान्त्या पठितंप्रतिलिपिकारेणेति न निश्चिनुमः । ' [s] []ला[s]ली[s]नि[1]रा[S]शा [s]' इत्येवं लक्षणसमन्वयः ॥ अ० २, सू० - ५८ ॥