________________
७७
[अ० २, सू० ५५-५६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
म्सौ गो मदलेखा ॥५५॥ मगणसगणो गुरुश्च । यथा- यावत् केसरिनादो, नायाति श्रुतिमार्गम् । तावद् गन्धगजानां, गण्डे स्यान् मदलेखा ॥५५.१॥
चतुर्थं प्रकारमाह- म्सौ गो मदलेखेति । म्साविति पदं व्याख्यातिमगण-सगणाविति- 'मगणः sss, सगणः ।।5, गुरु ऽ' इति प्रकारेण सप्तभिवर्णैः कृताः पादा यस्य तत् 'मदलेखा' नामकमुष्णग्जातिच्छन्द इत्यर्थः । उदाहरति- यथा-यावदिति- यावत्- यत्कालपर्यन्तं, केसरिनाद:- सिंहगर्जनं, श्रुतिमार्ग- कर्णपथं, न आयाति- नागछति, तावत्- तत्कालपर्यन्तमेव, गन्धगजानां- मत्तहस्तिनां, गण्डे - कपोले, मदलेखा- दानवारिराजि, स्यात्भवेत् ।
"यस्य गन्धमुपाघ्राय, परे माद्यन्ति हस्तिनः । सन्ततंच मदस्रावी, सोऽयं गन्धगजः स्मृतः ।।" इति परिभाषानुसारं प्रचुरमदवानपि गजः सिंहनादं श्रुत्वा तथाभीतो भवति येन तस्यातुलबलसूचिका दानपङ्क्तिरपि विच्छन्ना भवतीति तात्पर्यम् । अत्र 'ता[5]वद्[s], ग[5]न्ध[1]जा[5]नां[s]' इत्येवं रूपेण लक्षणानुगतिः ॥ अ० २, सू०-५५ ॥
रौ ग उद्धता ॥५६॥ रगणसगणौ गुरुश्च । यथा-या बभूव सुदर्पा, वैरिणां नृप ! सेना । त्वत्प्रतापविलासे, सोद्धताऽपि गतश्रीः ॥५६.१॥
पञ्चमं भेदमाह- सौ ग उद्धतेति । राविति पदं व्याख्याति- रगणसगणाविति- 'रगणः sis, सगणः ।।5, गुरुः ऽ' इत्येवंप्रकारैर्वर्णैः कृताः पादा यस्य तत् 'उद्धता'नामकमुष्णग्जातिच्छन्द इत्यर्थः । उदाहरति- यथा-या बभूवेति- हे नृप !- राजन् !, या वैरिणां- रिपूणां, सेना, सुदर्पा- सम्यगदर्पवती, बभूव, उद्धता- अन्येषां कृते दुर्घषां अपि, सा त्वत्प्रतापविलासेतव प्रतापस्य क्रीडायां- तव सैन्योपरोधे सति, गतश्री:- विनष्टशोभा, जाते