________________
७६
सवृत्ति च्छन्दोऽनुशासनप्रद्योते
[अ० २, सू० ५४.]
अस्यैव च्छन्दसो नामान्तरमाह - शिखेति भरत इति - सम्प्रति भरतनाट्यशास्त्रे नेदनुपलभ्यते ॥ अ० २, सू०-५३ ॥
सौ गः कुमारललिता ॥५४॥
जगणसगणी गुरुश्च । यथा - नरेन्द्रगणसेना-, वृतः प्रथितशक्तिः । दधासि नृपते ! त्वं, कुमारललितानि ॥ ५४.१ ॥
अत्र केचिद् द्वाभ्यां विरतिमिच्छन्ति ।
,
इदं वदनपद्मं प्रिये ! तव विभाति । इह व्रजति मुग्धे ! मनो भ्रमरतां मे ।। ५४.२ ।।
अस्या एव जातेस्तृतीयं प्रभेदमाह - “ज्सौ गः कुमारललिता" इति । ज्साविति पदं व्याचष्टे - जगण - सगणाविति - 'जगण: ISI, गुरु : 5' इत्येवंरूपैर्वर्णेविहिताः पादा यस्य तत् 'कुमारललिता' नामकं मुष्णिग्जातिच्छन्द इत्यर्थः । उदाहरति- यथा - नरेन्द्रेति - हे नृपते !- राजन् ! नरेन्द्र गणसेनावृतः- नरेन्द्रगणानां - राजसमूहानां सेनाभिः घृत:- सहितः, प्रथितशक्तिः - प्रसिद्धसामर्थ्यः, त्वं कुमारललितानि - कुमारस्य - देवसेनापतेः स्कन्दस्य, ललितानि - चरितानि दधासि - धारयसि । कुमारोऽपि हि नरेन्द्रा इव गणाः प्रमथादयः, तेषां सेनाभिर्वृतो भवति, शक्तिश्च तस्य प्रहरणत्वेन प्रसिद्धेति प्रथितशक्तिरस्ति । तथा च तत्सदृशस्त्वं स इव रिपुषु पराक्रमविलासं दधासीत्यर्थः । 'न[1]रे[s]न्द्र[1]ग[1]ण[1]से [s]ना [s]' इत्येवं लक्षणसङ्गतिः ।
अत्र विशेषमाह - अत्र केचिद द्वाभ्यां विरतिमिच्छन्तीति, तथा च द्वो वर्णौ, पञ्चवर्णौ चेति खण्डद्वयेन वृत्तं पठन्तीति पिङ्गलच्छन्दःशास्त्रस्य वृत्तौ हलावेनापि चैतदुक्तम् - अत्र केचिद् द्वाभ्यां पञ्चभिश्च यतिमिच्छन्तीति । अत्रोदाद्रियमाणं च पद्यमपि तत्रोल्लिखितम्, तथाहि - इदं वदनपद्ममितिहे प्रिये ! तव इदं वदनपद्मं - वदनमेव पदुमं मुखकमलं विभाति- शोभते; हे मुग्वे ! इह - तव मुखकमले, मनः, भ्रमरतां - मधुकरवद्र सलोलुपत्वं व्रजतिप्राप्नोति, चुम्बनेच्छा जायत इति भाव: । द्वाभ्यां यतिरस्त्येव, लक्षणसं गतिश्च पूर्ववदत्राप्यवसेया ॥ अ० २, सू०-५४ ॥