SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ७५ [अ० २, सू० ५२-५३.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते उष्णिहि मौ गो गन्धर्वी ॥५२॥ यथा- स श्रेयांसि श्रेयांसः, श्रीमान् देवः पुष्णातु । क्षोभायाभूयश्चित्ते, गान्धर्वो न क्रीडापि ॥५२.१ ॥ ___ अतः परं सप्ताक्षरपादामुष्णिक्छन्दोजाति वर्णयितु- मुपक्रमते- "उष्णिहि मौ गो गान्धर्वी" इति । मगणद्वयं गुरुश्चेति-'sss sss s' इत्येवंस्वरूपैर्वण: कृताः पादा यस्य तत् 'गान्धर्वी' नामकमुष्णग्जातिच्छन्द इत्यर्थः । उदाहरतियथा- स श्रेयांसीति- स:-' जिनशासनप्रसिद्धः, श्रीमान्– ज्ञानादिलक्ष्म्या युक्तः, श्रेयांस:- श्रेयांसनामा, देव:- तीर्थंकरः, श्रेयांसि- कल्याणानि, पुष्णातु- वर्धयतु, स कः ? यञ्चित्ते- यस्य मनसि, क्षोभाय- विकाराय, गान्धर्वीगन्धर्वैः कृता, क्रीडा- नृत्यादिरूपाऽपि नाभवत्- समर्था न जाता, गान्धर्वी क्रीडां पश्यतोऽपि यस्य चित्तचाञ्चल्यं नासीदित्यर्थः । 'स[], श्रे[5]यां[5]सि,[5] श्रे[s]यां[s]सः[s]' इत्येवं रीत्या सर्वत्र पादेषु लक्षणसंङ्गतिः ।। अ० २, सू०-५२ ।। रजौ ग उष्णिक् ॥५३॥ रगणजगणौ गुरुश्च । यथा- उष्णिहीव संसृती, स्याध्रुवं रजो गुरु । नो भवेद्यदि क्षितौ, श्रीजिनेन्द्रशासनम् ॥ ५३.१ ।। शिखेति भरतः ॥ ५३.१ ॥ द्वितीयं प्रकारमाह- "र्जी ग उष्णिक्" इति । र्जी ग इत्यस्यार्थमाहरगण-जगणौ गुरुश्चेति- 'रगण: sis, जगणः ।51, गुरु:ऽ' इत्येवंप्रकारैर्वणविहिताः पादा यस्य तत् 'उष्णिग्'नामकमुष्णग्जातिच्छन्द इत्यर्थः । उदाहरति- यथा- उष्णिवीहेति- संसृतौ- संसारे, उष्णिहीव- 'उष्णिक्'छन्दसीव, रजः- पापरूपा धूलिः, गुरु- महत्, ध्र वं- निश्चितं स्यात् [ उष्णिहि छन्दसि रगणात् परो जगणः, गुरु च ध्रुवं भवत्येवेति उपमेये सामान्यधर्मस्य तादृशशब्दाभिधेयार्थस्य समन्वयः ] यदि क्षितौ- पृथिव्यां, श्रीजिनेन्द्रशासनंश्रीमतो जिनेन्द्रस्य उपदेशः, नो स्यात्- न भवेत्, इत्यर्थः । अत्र 'उ[s]ष्णि [1]ही[s]व[1], सं[5]सृ[1]तौ[s]' इति रीत्या सर्वत्र पादेषु लक्षणसंङ्गतिः ।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy