SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ७४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ५०-५१.] स्मौ सूचीमुखी ॥५०॥ सगणमगणौ । यथा- अधुना पञ्चेषो-,नवतीक्ष्णास्त्रत्वम् । इह जज्ञे सूची, मुखया केतक्या ॥ ५०.१॥ अष्टादशं प्रकारमाह- स्मो सूचीमुखीति । स्माविति पदं व्याचेष्टेसगण-मगणाविति- 'सगणः ।,मगण: sss' इत्येवंरूपैर्वर्णैः कृताः पादा यस्य तत् ‘सूचीमुखी'नामकं गायत्रीजातिच्छन्द इत्यर्थः। उदाहरति- यथा- अधुनेति- अधुना- सम्प्रति, इह- अत्र, सूचीमुख्या- सूची इव [तीक्ष्णं] मुखमप्रभागो यस्यास्तया, केतक्या- केतकीपुष्पेण, पञ्चेषोः- पञ्चबाणस्य कामस्य, नवतीक्ष्णास्प्रत्वं- नूतनशितप्रहरणत्वम्, जेज्ञ- जातम्, इत्यर्थः । 'अ[1]धु[1]ना[s], पञ्[5]चे[s]षोः[s]' इति लक्षणसङ्गतिः ।। अ० २, सू०-५५ ॥ यमौ शिखण्डिनी ॥५१॥ यगणमगणौ । यथा- हहा पान्थस्त्रीभिः, पिघीयन्ते कर्णाः । मुहुातन्वाने, शिखण्डिन्यारावम् ॥ ५१.१॥ ६।१६ ॥ ऊनविंशं प्रभेदमाह- रमौ शिखण्डिनीति । य्मावित्यस्यार्थमाह- यगणमगणाविति- 'यगणः ।ऽऽ, मगणः ' ईति, ताम्यां विहिताः पादा यस्य तत् गायत्र्यां 'शिखण्डिनी'नामकं छन्द इत्यर्थः । उदाहरति- यथा-हहेतिशिखण्डिनि- मयुरे, मुहुः- वारं वारम्, आरावं- दीर्घकेका, व्यातन्वानेकुर्वाणे सति, पान्थस्त्रीभिः- पथिक-प्रोषित-जनकान्ताभिः, कर्णाः- श्रोत्राणि, पिधीयन्ते- मुद्रयन्ते, इति हहा- दुःखमित्यर्थः । मयूरशब्दस्य मेघागमनबोधकतयाऽतिदुःखजनकत्वेन प्रियविप्रययुक्तानां तासां कृते दुःश्रवत्वमिति तच्छ्रवणपरिहाराय ताः कर्णान् पिदधतीत्यर्थः । 'ह[1]हा[s]पा[s]न्थ[s] स्त्री[s]भिः[s]' इत्येवं रीत्या सर्वत्र पादेषु लक्षणसमन्वयः । इत्येवं गायत्र्या ऊनविशतिर्भेदा वर्णिताः, प्रस्तारक्रमणे तु चतुःषष्टिर्भदा विज्ञेयाः। तदुक्तं भरतनाट्यशास्त्रे- "वृत्तानि तु चतुःषष्टिर्गायत्र्यां कीर्तितानि तु" [अ० १४. का० ५५] ॥५० २, सू०-५१॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy