________________
[अ० २, सू० ४८-४६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते जाता:- सम्पन्ना इत्यन्वयः । अत्र 'कजला' इति पदांश एव 'जला' इति छन्दोनाम निविष्टं बोध्यम् । 'जा[s]ता[5]स्त[1]व[5],द्वि[1]षत्[s]' इत्थं लक्षणसमन्वयः प्रतिपादमवसेयः ।। अ० २, सू०-४७ ॥
म्यौ सुनन्दा ॥४८|| मगणयगणौ । यथा- श्रीमत्पार्श्वनाथ !, त्वत्पादाब्जयुग्मे । भूयानिविकल्पा, भक्तिर्मे सुनन्दा ॥ ४८.१ ॥
षोडशं प्रभेदमाह- "म्यौ सुनन्दा" इति । म्यावित्यस्यार्थमाह- मगणयगणाविति- 'मगण: sss, यगणः ।ऽऽ इति, ताभ्यां निर्मितः पादो यस्य तत् सुनन्दा नाम गायत्रीजाति- च्छन्द इत्यर्थः । उदाहरति- यथा-श्रीमदितिश्रीमांश्चासौ पार्श्वनाथः श्रीमत्पार्श्वनाथः, तत्सम्बोधने- हे श्रीमत्पार्श्वनाथ !, त्वत्पादाब्जयुग्मे- तव पादावेवाब्जं- कमलं, तयोर्युग्मे- युगले, मे- मम, निर्विकल्पा-निःसंशया, सुनन्दा-सुष्ठु नन्दयती-ति सा, भक्तिः- श्रद्धासहितोऽनुरागः, भूयात्- अस्तु, इत्यर्थः । 'श्री[s]मत्[s]पा[s] [1]ना[5]थ[s]'. ["वान्ते विक्रः" इति सूत्रानुसारं पादान्तस्थस्य' लघोर्गुरुत्वात् थस्य गुरुतायां सत्यां यगणस्वरूपनिष्पत्तिः] इति लक्षणसमन्वयः ।। अ० २, सू०-४८ ।।
ममौ विक्रान्ता ॥४६॥ भगणमगणो । यथा- नो भटसिंहास्ते, त्वद्रिपुपुर्यन्तः । वासरति सिंहाः, बिभ्रति विक्रान्ताः॥४६.१॥
सप्तदशं प्रकारमाह- "म्भौ विक्रान्ता" इति । म्भाविति पदं व्याख्यातिमगण-मगणाविति- 'भगणः ।,मगण: sss' इत्येवं- प्राकारैर्वर्णैः प्रकृताः पादा यस्य तत् 'विक्रान्ता' नामकं गायत्रीजातिच्छन्द इत्यर्थ । उदाहरतियथा- नो भटसिहास्ते इति-[हे नृप !] त्वद्रिपुपुर्यन्त:- तव शत्रोः पुरीमध्ये, ते- प्रसिद्धाः, विक्रान्ताः- शूराः, भटसिंहा:- भटाः सिंहा इव पराक्रमशीला:, नो- न, वासरति- निवासानुरागं, बिभ्रति- धारयन्ति, किन्तु विक्रान्ताः सिंहाः- केशरिणः [एव], शून्ये तत्र वासरति विभ्रतीत्यर्थः । 'नो[s], भ[1]ह[1]सिं[5] हा[5]स्ते[5]' इति लक्षणसमन्वयः । अ० २, सू०-४६॥