________________
७२
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ४६-४७.] "वाऽन्ते ग्वक" इत्यनुशासनवशादेवाभ्युपेया, तेन हि पादान्तस्थस्य लघोर्गुरुत्वं प्राप्यते । तथा च हे मालिनि ! सम्प्रति ऐन्दवं मण्डलं- चन्द्रमसो बिम्ब, त्वद्वदनाग्रत:- तव मुखस्य समक्षम्, श्रीलघु- श्रिया- शोमया, लघु-न्यूनं, लक्ष्यते- विज्ञायत इत्यर्थः । त्वद्[5]व[1]द[1]ना[s]ग्र[1]त:[5]' इति लक्षणसमन्वयो ज्ञेयः । 'अन्तिमे पादे च सम्बोधनान्तपाठे वैकल्पिकगुरुत्वेनैव निर्वाह इत्युक्तम् । अ० २, सू०-४५ ।।
स्यौ विमला ॥४६॥ सगणयगणौ । यथा-निपतन्ति यस्मिन्, सरला दृशस्ते । तमुपैति लक्ष्मी-, विमला च कोतिः ॥ ४६.१ ॥
चतुर्दशं प्रकारमाह- स्यौ विमलेति । स्याविति पदस्यार्थमाह- सगणयगणाविति- सगणः ।।5, मगणः ।ऽऽ इति, ताम्यां विरचिताः पादा यस्य तत् 'विमला'नामकं गायत्रीजातिच्छन्दः इत्यर्थः । उदाहरति-यथा-निपतन्तीतिते- वर्ण्यमानस्य महापुरुषस्य, सरला:- ऋजवः कृपार्द्राः, दृश:- दृष्टिपाता:, यस्मिन्- सुजने, निपतन्ति- विषयित्वं, प्राप्नुवन्ति, तं- जनं, लक्ष्मी:सम्पदधिष्टात्री देवी, विमला- निर्मला, कीर्तिः- स्वख्यांतिश्च, उपैतिप्राप्नोतीत्यर्थः । 'नि[1][1]त[s]न्ति[1]यस् [s]मिन[s]' इति लक्षणयोगः ॥ अ० २, सू०-४६ ॥
त्रौ जला ॥४७॥ तगणरगणौ । यथा- जातास्तव द्विषत्-, स्त्रीणां दृशो नृप !। अधान्तमअभिः, पर्यस्तकलाः ॥ ४७.१॥
पञ्चदशं प्रकारमाह- "त्री जला" इति । त्राविति पदं व्याख्यातितगण-रगणाविति- तगणः ।,रगण: Is इति, ताम्यां विरचिताः पादा यस्य तत् 'जला'नामकं गायत्रीजातिच्छन्द इत्यर्थः । उदाहरति-यथा-जातास्तवेति । हे नृप !- राजन् !, तव- भवतः, द्विषत्स्त्रीणां-शत्रुपत्नीनां, दृश:नेत्राणि, अश्रुमिः-, नेत्रजलः, अश्रान्तं- सततं, पर्यस्तकाला:- प्रसृताञ्जनाः,