SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० ४४-४५.] सृवृत्तिच्छन्दोऽनुशासनप्रद्योते ७१ शफरिका चले- शफरिकेव - क्षुद्रमत्स्यजातिविशेष इव चले - चञ्चले, तव - भवत्याः, विलोचने - विशाले नयने, मनः- चेत:, [ अर्थान्मम ] रमयतः- रति विधत्तः इत्यर्थः । अत्र 'कु[1] व[1]ल[1]ये[s]क्ष [ 1 ]णे [s]' इति लक्षणसंगतिः । अस्यैव भरताभिमतं नामान्तरमाह - गिरेति भरतः इति ।। अ० २, सू० - ४३ ॥ नौ कच्छपी ॥४४॥ रगणनगणौ । यथा - लक्ष्यते सरसि, चन्द्रमः सदृशि । लक्ष्मकान्तिरिह, कच्छपी पयसि ॥ ४४.१ ॥ द्वादशं प्रभेदमाह - "नौ कच्छपी" इति । र्नाविति पदंव्याचष्टे - रगण - नगणाविति - 'रगण: SIS, नगणः ॥ इति, ताम्यां विरचिताः पादा यस्य तत् 'कच्छपी' नामकं गायत्रीजातिच्छन्द इत्यर्थः । उदाहरति- यथा लक्ष्यते इति - इह - अस्मिन्, सरसि - जलाशये, चन्द्रमः सदृशि - चन्द्रतुल्ये निर्मले जले, कच्छपी - कमठी, लक्ष्मकान्तिः- लक्ष्मण:- चन्द्रस्थितचिह्नविशेषस्य, कान्तिः - छविरिव कान्तिर्यस्यास्तादृशी, लक्ष्यते - दृश्यते इत्यर्थः । अत्र 'ल [S]क्ष्म [1]ते [5] स [1]र[1]सि [s]' इति लक्षणसङ्गतिः ॥ अ० २, सू० - ४४ ॥ भ्रौ लघुमालिनी ॥४५॥ भगणरगणौ । यथा- स्वद्वदनाग्रतो, मण्डलमैन्दवम् । संप्रति लक्ष्यते, श्रीलघु मालिनी [नि ! ] ॥ ४५.१ ॥ त्रयोदशं भेदमाह - "भ्रौ लघुमालिनी " इति । भ्राविति पदं व्याख्यातिभगण - रगणाविति - भगण: SII, रगण: 5/5 इति, ताम्यां निर्मिताः पादा यस्य तत् 'लघुमालिनी' नामकं गायत्रीच्छन्दोजातिच्छन्द इत्यर्थः । उदाहरतियथा - त्वद्वदनेति - अत्र श्लोकान्तस्थं 'मालिनी' इति पदं छन्दोदृष्ट्या छन्दोनामविन्यासदृष्ट्या छन्दःपूर्तिदृष्ट्या च दीर्घान्तं निर्दिष्टमपि अर्थान्वयानुरोधेन ह्रस्वान्तमेव सम्बोधनपरतया न्यस्तं स्यादिति चारु प्रतिभाति, प्रायो लेखकप्रमादादेव दीर्घान्तत्वं दृश्यत इति प्रतिभाति । छन्दोनामविन्यासस्तु आनुषङ्गिकतया गौण एव अर्थानुरोध एवावश्यकः । रगणास्वरूपसिद्धिश्च
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy