SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सृवृत्तिच्छन्दोऽनुशासन प्रद्योते [अ०२, सू०४२-४३.] वित्री ] लतिका इव लतिकैव वा, विभाति - शोभते । रूपकोद्वलिताऽतिशयोक्तिरलङ्कारः । 'भा[5]ति [ 1 ] मृ[1]दु [ 1 ] पा [S]णि ' [ " वाऽन्ते ग् वक्रः" इति सूत्रेण पादान्तस्थस्य लघोगुर्रुत्वानुशासनात् ] लक्षणसंगतिर्बोध्या । अ० २, सू०-४१ ।। ७० म्सौ मुकुलम् ॥४२॥ मगणसगणी । यथा- यातोऽस्तं शशभृन, मार्तण्डोऽभ्युदयम् । व्याकोशं कमलं, नीलाब्जं मुकुलम् ॥ ४२.१ ॥ वीथीति भरतः ॥४२.१ ॥ यता दशमं विशेषमाह - ""सौ मुकुलम् " इति । 'सौ' इति पदं व्याख्यातिमगण- सगणाविति - मगणः sss, सगणः ॥15, आभ्यां गणाभ्यां निर्मिताः पादा यस्य तत् मुकुलमिति ख्यातं गायत्रीजातिच्छन्द इत्यर्थः । उदाहरति- यथायातोऽस्तमिति - प्रातः कालवर्णनमिदम् । शशभृत् - चन्द्र:, अस्तं - दृष्टिविष - शून्यत्वं यातः- प्राप्तः, मार्तण्ड:- सूर्य:, अभ्युदयं - प्राकट्य यातः, कमलं - पङ्कजं, व्याकोशं प्रफुल्लतां, 'यातम्' - इति लिङ्गविपरिणामेनान्वयः, नीलाब्जं - नीलकुमुदिनीपुष्पम्, मुकुलं- भावप्रधानो निर्देश इति मुकुलतां कुड्मलतां यातमित्यन्वयः । सामान्यतः कमलानां दिवा विकासः कुमुदिन्या रात्राविति प्रसिद्धिः । अब्जत्वं चोमयत्र समानमिति प्रातर्मुकुलितत्वानुरोधेनात्राब्जपदं कुमुदिनीबोधकमेवेत्यसेयम् । 'या[S]तो [s]स्तं [S],श [1]श [|]भृत् [S]' इति लक्षणसङ्गतिः । अस्यैव नामान्तरं भरतानुशिष्टमाह - विथीति भरत इति ॥ अ० २, सू० - ४२ ॥ " नौ शफरिका ॥४३॥ नगणरगणौ । यथा- कुवलयेक्षणे, रमयतो मनः । तव विलोचने, शफरिकाचले ॥४३.१॥ गिरेति भरतः ॥ ४३.१ ॥ I एकादशं प्रकारमाह - " त्रौ शफरिका" इति । 'नौ' इति पदं व्याख्यातिनगण - रगणाविति नगण: ।11, रगण: SIS, आम्यां विरचिताः पादा यस्य तत् शफरीकेति ख्यातं गायत्रीच्छन्द इत्यर्थः । उदाहरति- यथा- कुवलयेक्षणे इति - हे कुवलयेक्षणे ! - कुवलये- नीलकमले इव, ईक्षणे नेत्रे यस्यास्तत्सम्बोधने,
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy