SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० ४०-४१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते कृतः, भविष्यति वा तेषां मनसि क्वचित् कश्चिदर्थानुगमः, किन्तु सर्वत्र तथानुगमस्य दुर्बोधत्वमेवेति यदृच्छाशब्दत्वमेवैषामिति प्रतिभाति ॥ अ० २, सू०-३६ ॥ रमौ मालिनी ॥४०॥ रगणमगणौ यथा- केतकीसंसृष्टः, मालतीसंपृक्तः। पङ्कजरहन्तं, मालिनी सोपास्ते ॥४०.१॥ अष्टमं प्रकारमाह-रौ मालिनीति। 'र्मी' इति पदं व्याख्याति- रगणमगणाविति- 'रगणः' 515, मगणः ऽऽऽ' इति प्रकृतगणद्वयेन निर्मिताः पादा यस्य तत् 'मालिनी' इति नामकं गायत्रीजातिच्छन्द इत्यर्थः। उदाहरति- यथाकेतकीसंसृष्टः इति- सा- पूर्ववर्णिता, मालिनी- मालाधारिणी स्त्री, मालाकार पत्नी वा, केतकीसंसृष्टः- केतकीभिः- केतकीवृक्षोद्भूतपुष्पैः, संसृष्टः- मिश्रितः, मालतीसम्पृक्तः- मालतीभिः- स्वनामख्यातलतापुष्पः, सम्पृक्तः- मिलितैः, पङ्कजः- कमलः, अर्हन्तं- देवम्, उपास्ते-पूजयतीत्यर्थः । 'के [s]त[1]की [5]सं[5][s]क्तः[s]' इति रूपेण सर्वत्र पादे लक्षणानुगतिविज्ञेया ॥ अ० २, सू०-४० ॥ भ्यो कामलतिका ॥४१॥ भगणयगणौ। यथा- भाति मृदुपाणि-, पल्लवमनोज्ञा । हासकुसुमश्रीः, कामलतिकेयम् ॥४१.१॥ नवमं विशेषमाह- "भ्यो कामलतिका" इति । 'भ्यो' इति पदं व्याकरोति- भगण-यगणाविति- 'भगणः ॥, यगणः ।ऽऽ' इत्येवं गणद्वयान्तर्गतवर्णं रचिताः पादा यस्य तत् 'कामलतिका' नामकं गायत्रीजातिच्छन्द इत्यर्थः । उदाहरति- यथा- भाति मृदुपाणी इति- मृदुपाणीपल्लवमनोज्ञा- मृदूकोमलौ, पाणी- करौ पल्लवाविव, ताम्यां मनोज्ञारमणीया, हासकुसुमश्रीःहास:- मुखविकार एव, कुसुमानि-पुष्पाणि, तैः श्री:- शोभा यस्याः सा, इयंप्रत्यक्षदृश्यमाना वराङ्गना, कामलतिका- कामस्य- विषयसुखस्य [प्रस
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy