SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ६८ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ३६.] षष्ठं विशेषमाह- "यो सोमराजी" इति- 'यगणद्वयं' iss Iss' इत्येवं रूपेण निर्मिताः पादा यस्य तत् 'सोमराजी' इतिनामकं गायत्रीजातिच्छन्द इत्यर्थः। उदाहरति- यथा-स वः पातु इति-कुन्दत्विषा-कुन्दं-माघमासप्रभवं श्वेतपुष्पं, तद्वत् त्विट- कान्तिर्यस्यास्तादृश्या, देहभासा- शरीरकान्त्या, समुद्योतितान्त:-सुप्रकाशितसमीपदेशः, सोमराजी-सोमश्चन्द्रः, तद्वत् राजते- शोभते, सोमेन- स्वकीयलाञ्छनेन राजते तच्छील:, चन्द्रप्रभनामा जिनः, व:- युष्मान्, पातु- रक्षतादित्यर्थः । 'स[1] वः[5] पा[5]तु[1] कु[s]न्द[s]' [संयोगे गुरुः" इति लक्षणादस्य गुरुत्वम्] इति लक्षणसमन्वयः ॥ अ० २, सू०-३८ ॥ न्यौ शशिवदना ॥३९॥ नगणयगणौ । यथा- मनसिजलीला-कुलगृहभूमिः । कुवलयनेत्रा, शशिवदनेयम् ॥३६.१॥ मुकुलितेत्यन्यः । मकरशीर्षेति भरतः ॥३६.१॥ अस्या एव सप्तमं प्रभेदमाह- "न्यौ शशिवदना" इति । न्याविति पदं व्याचष्टे- नगण-यगणाविति- 'नगणः ।, यगणः ।ऽऽ' इत्येवं प्रकारः, षड्भिर्वर्णैः कृताः पादा यस्य तत् 'शशिवदना' इत्याख्यातं गायत्रीजातिच्छन्दः । उदाहरति- यथा- मनसिजलोलेति- कुवलयनेत्रा- कुवलयं- नीलकमलमिव, नेत्रं यस्याः सा, शशिवदना- चन्द्रमुखी, इयं-प्रत्यक्षभूता काचिदङ्गना, मनसिजलीलाकुलगृहभूमिः- मनसिजस्य- कामस्य, लीलाया:- विलासस्य कुलगृहभूमिः- परम्पराप्राप्तनिवासस्थानम्, अस्तीत्यर्थः । 'म[0]न[1]सि[1]ज[1]ली[s]ला[s]' इत्येवं लक्षणयोगः । अस्यैव नामान्तरेणापि व्यवहारं सूचयति- मुकुलितेत्यन्यः इति- अन्य आचार्य इदं छन्दो मुकुलितेत्याह । मकरशीर्षेति भरतः इति- भरत आचार्य इदमेव 'मकरशीर्षा' नाम्ना व्यवहरति, तथाहि "लघुगण आदी, भवति चतुष्कः । गुरुयुगमन्ते मकरशीर्षा ॥” इति १५॥४॥ नाम्नो यौगिकार्थेन च्छन्दसि सम्बन्धाभावात् यथारुचि आचार्यर्व्यवहारः शादि
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy