SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० ३६-३८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते त्यौ तनुमध्या ॥३६॥ तगणयगणौ । यथा - लावण्यपयोधिः, सौभाग्यनिधानम् । सा कस्य न हृद्या, बाला तनुमध्या ॥ ३६.१ ॥ ६७ गायत्र्याश्चतुर्थं प्रकारमाह - "त्यो तनुमध्या" इति । त्याविति पदं व्याख्याति- तगण - यगणाविति - 'तगण : ' SSI, यगणः, Iss' इति गणद्वयेन कृताः पादा यस्य तत् गायत्र्यां तनुमध्येतिनामकं छन्द इत्यर्थः । उदाहरतियथा- लावण्यपयोधिः इति - लावण्यस्य पयोधि:- समुद्र इव आकरभूता, सौभाग्यनिधानं - सौभाग्यस्य - सर्वमाङ्गल्यस्य निधानं निधिः, तनुमध्याकृशोदरी, सा- पूर्ववर्णिता, बाला- प्रथमावतीर्णयोवना, कस्य - जनस्य, हृद्या - हृदयप्रिया, न- सर्वस्य हृदयप्रिया भवत्ये - वेत्यर्थ: । ' ला [s] व [s][1] प [1] यो [s]धिः [s] ' इति लक्षणसंगतिः ॥ अ० २, सू०-३६ ।। भौ गुरुमध्या ॥ ३७॥ सगणभगणौ । यथा- चपला केकर, नयना सा किल । रमणीकोविद !, गुरुमध्या तव ।। ३७.१ ।। अस्या एव पञ्चमं विशेषमाह - " स्भौ गुरुमध्या " इति । 'भौ' इति पदं व्याख्याति - सगण - भगणौ इति 'सगणः ॥5, भगणः ।।' एवंरूपैर्वर्णैः कृताः पादा यस्य तत् गायत्रीजातो 'गुरुमध्या 'नामकं छन्द इत्यर्थः । उदाहरतियथा चपला केकरेति - हे रमणीकोविद ! रतशीलकामिनी- विशेषज्ञ !, चपला- चरित्रचाञ्चल्यवती, केकरनयना - केकरे - निम्नोन्नते नयने यस्यास्तादृशी, गुरुमध्या - स्थूलोदरी, सा- पूर्ववणिता स्त्री, तव किल - तवैवेत्यर्थः । 'च[1]प[1]ला[S], के[1] []र[1]' इत्येवं रूपेण लक्षणसमन्वयः ॥ अ० २, सू० - ३७ ।। यौ सोमराजी ॥ ३८ ॥ यथा - स वः पातु कुन्व-, त्विषा देहमासा । समुद्योतितान्तो, जिनः सोमराजी ॥ ३८.१ ।।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy