SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ३४-३५.] ब्रह्मा- ब्रह्मत्वेन कथनीयः ? नैव कथनीय इत्याकूतम् । क्वचित् 'देवः किं स ब्रह्मा' इत्येवं तृतीयः पादः । अत्र प्रतिपादं गुरुषट्कस्य विन्यास इति लक्षणसङ्गतिः ।। अ० २, सू०-३३ ॥ म्रौ तटी ॥३४॥ मगणरगणौ । यथा- कामेभ्यो निस्पृहं, यस्योः स्यान्मनः । किं कुर्यात तस्य सा, मन्दाकिन्यास्तटी ॥३४.१॥ गायत्र्या द्वितीयं प्रकारमाह-म्रो तटीति- म्राविति पदं व्याख्याति-मगणरगणाविति- 'मगणः ऽऽऽ, रगणः Is', इत्येवं गणद्वयेन निर्मिता: प दा यस्य स 'तटी'नामको गायत्रीच्छन्दोविशेषः इत्यर्थः । उदाहरति-यथा-कामेभ्यो निःस्पहमिति- यस्य- पुरुषधौरेयस्य, उच्चैः- उन्नतं, मन:- चेतः, कामेभ्यःविषयाभिलाषेभ्यः विषयेभ्यो वा, निस्पृहं-प्रार्थनाशून्यं स्यात्, तस्य सामन शान्त्यर्थं प्रसिद्धा, मन्दाकिन्या:- देवनद्याः, तटी- प्रान्तभूमिः, किं कुर्यात्किमर्थं भावयेत्, स्वत एव वितृष्णस्य तस्य कृते तस्या वैयर्थ्यमेवेति भावः । 'का[s]मे [5]भ्यो[s] नि[s]स्पृ[1]ह[s]' इत्येवं रीत्या लक्षणसङ्गतिः ॥ अ० २, सू०-३४॥ सौ रमणी ॥३५॥ यया- रजनीरमण-,प्रतिभे-वदने। तिलकं शशकं, कुरुते रमणी ॥३५.१।। नलनीति भरतः ॥३५.१॥ गायत्र्यास्तृतीयं प्रभेदमाह- “सौ रमणी" इति- 'सगणद्वयं ॥5॥' यस्य प्रतिपादं तत् गायत्रीच्छन्दोजातिकं 'रमणी' नामकं छन्द इत्यर्थः । उदाहरति- यथा- रजनीरमणेति- रमणी- रमणशीला स्त्री, रजनीरमणप्रतिभे- रजन्या:- रात्रः, रमण:- पतिश्चन्द्रः, तद्वत् प्रतिभा- कान्तिर्यस्य तादृशे, वदने- मुखे, शशकं-- शशसदृशं, तिलक- विशेषकं, कुरुते- विदघाती त्यर्थः । सर्वथा शशाङ्क सादृश्यप्राप्त्यर्थं शशसदृशं तिलकं रचयतीति भावः । 'र[1]ज[1]नी[s]र[1]म[1]ण[s] [अग्रे संयोगसत्त्वाल्लघोरपि णकारस्य गुरुस्वात्]लक्षणसंगतिः । अस्या एव भरतोक्तं नामान्तरमाह- नलिनीति भरतः इति । अ० २, सू०-३५ ॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy