SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० ३२-३३.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते न्लगा अभिमुखी ।।३२॥ नगणो लघुगुरू च । यथा- शशिवदना, मृगनयना । अभिसरति, त्वदभिमुखी ॥३२.१॥ मृगचपलेत्यन्यः । कमलमुखीति भरतः ॥ ३२.१ ॥ ५॥१०॥ तस्या एव दशमं विशेषमाहः "लगा अभिमुखी" इति । विवृणोतिनगणो लघुगुरू चेति- 'नगणः ।।। लघुत्रयात्मको वर्णगणः, लघुः[1], गुरु:[s]' इत्येवंप्रकारवर्गविहिताः पादा यस्याः तत् 'अभिमुखी' नामकं छन्द इत्यर्थः । उदाहरति-यथा-शशिवदना इति-शशिवदना- शशी चन्द्र इव वदनं यस्याः सा, मृगनयना- मृगस्य नयने इव नयने यस्यास्तादृशी च काचिदङ्गना, त्वद्भिमुखी त्वामभिलक्ष्य,अभिसरति- रहःस्थानं गच्छतीत्यर्थः। अत्र 'श[1]शि] [1] [1] द[1]ना[s]' इत्येवं लक्षणसमन्वयः । अस्या नामान्तरमप्याह-मगचपलेत्यन्ये इति- अन्ये आचार्या इदं छन्दो 'मृगचपला' इत्याह । कमलमुखीति भरतः इति- भरत आचार्योऽस्य च्छन्दसः कमलमुखीति नामाहेत्यर्थः । इत्थं सुप्रतिष्ठाच्छन्दसो दश भेदाः कथिताः परं प्रस्तारक्रमेण च द्वात्रिंशद् भेदा भवन्तीत्यटमाध्याये स्पष्टीभविष्यति । निदिष्टं चान्यरेतत्संख्यया, न तु लक्षणः, तथा सति ग्रन्थानन्त्यप्रसङ्गादिति प्रसिद्धा एव भेदा लाक्षणिकर्लक्षिता इति विज्ञेयम् ।। अ० २, सू-३२ ॥ गायत्र्यां मौ सावित्री ॥३३|| यथा- देवानां यः स्त्रणः, साक्षात् क्षोभं निन्ये । स ब्रह्मा ब्रह्मा किं, यत्कान्ता सावित्री ॥ ३३.१॥ अथ षडक्षरछन्दोजाति गायत्री प्रभेदैर्वणयितुमुपक्रमते- गायत्र्यां मौ सावित्रीति- मगणद्वयं sss sss, षड् गुरवः, तैः कृताः पादा यस्य तद् गायत्रीजातिच्छन्दसां मध्ये 'सावित्री' इति नाम्ना प्रसिद्धमित्यर्थः। यद्यपि सुप्रतिष्ठायामपि "म्लगाः सावित्री"[२।३०] इति सावित्रीच्छन्दो लक्षितं तथाऽपि जात्याव्यवच्छेदसंभवान्न परस्परसंकर इति विज्ञेयम् । उदाहरति- यथा- देवनामिति- यः, देवानां [कृते स्त्रणैः- स्त्रीसम्बन्धिभिर्विकारैः, साक्षात्- प्रत्यक्षमेव, क्षोभं- मनश्वाञ्चल्यं, निन्ये- प्रापयामास स ब्रह्मा- तादृशो ब्रह्मा किञ्च सावित्री- तन्नाम्नी देवी, यत्कान्ता- यस्य पत्नीत्वेन ख्याता, स ब्रह्मा, कि
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy