SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू० ३०-३१.] सुप्रतिष्ठाया एव सप्तमं प्रकारमाह- "टलगा जया" इति । विवृणोतियगणो लघुगुरू चेति- 'यगणः।ऽऽ, लघुः[1], गुरुः[s]' इत्येवं-रूपैर्वर्णविहिताः पादा यस्य तत् 'जया' नामकं छन्द इत्यर्थः । उदाहरति- यथा-ममानीयतेति- मुखेन- स्वीयाननेन, जिताम्भोजया- अमिभूतकमलया, कान्तयाकामिन्या, उल्लसत्- प्रसन्नं, मम मनः, अनीयत- स्ववशं नीतमित्यर्थः। अत्र पादान्तस्थस्य लघोरपि वा गुरुत्वस्य "वाऽन्तेऽवक्रः"[१६] इति सूत्रेणानुशिष्टत्वात्। 'म[1]मा[s]नी[s]य[1]त[5]' इति लक्षणसंगतिः ।। अ० २, सू०-२६॥ म्लगाः सावित्री ॥३०॥ मगणो लघुगुरू च । यथा- जैनेन्द्रं मुखं, दिश्यावः सुखम् । जिग्ये येन सा, सावित्री प्रभा ॥ ३०.१॥ अस्या एवाष्टमं प्रकारमाह- "म्लगाः सावित्री" इति । विवृणोतिमगणो लघुगुरू चेति- 'मगणःऽऽऽ, लघुः[1], गुरुः[s]' इत्येवंप्रकारैः पञ्च. भिर्वर्णः कृतस्वरूपाः पादा यस्य तत् 'सावित्री' नामकं छन्द इत्यर्थः। उदाहरति-यथा- जैनेन्द्र मुखम् इति- येन सा- प्रसिद्धा, सावित्री- सवितुरियं सा, सूर्यसम्बन्धिनी, प्रभा- कान्तिः, जिग्ये-जिता [तत्] जैनेन्द्रं- जिनेन्द्रस्येदं तत्, मुखम्- आननम्, व:- युष्मभ्यं, सुखं- कल्याणं, दिश्यात्- दद्यादित्यर्थः। अत्र 'जै[s]ने[5]न्द्र [5], मु[]खं[s]' इति लक्षणसङ्गतिः॥अ०२, सू०-३०॥ सो गौ घनपक्तिः ॥३१॥ यथा- क्रियया होनं, यदिह ज्ञानम् । रहिताम्भोभिर्-, घनपङक्तिः सा ॥ ३१. १.॥ अस्या एव जातेनवमं विशेषमाह- "सो गौ घनपङ्क्तिः " इति- 'सगणः ॥s, गुरुद्वयं ,च' इति स्वरूपैर्वर्णैः कृताः पादा यस्य तच्छन्दो घनपङ्क्तिर्नामेत्यर्थः । उदाहरति- यथा- क्रियया हीनमिति- इह- संसारे यत् ज्ञानं क्रियया- तदनुकूलाचरणेन हीनं-रहितं, सा अम्भोमिः- जलः, रहिता- शून्या, घनपङ्क्तिः - मेघमाला, तत्तुल्येत्यर्थः । यथा निर्जलेन मेघाऽम्बरेण किमपि न फलं तथा सहशाचरणशून्येन ज्ञानेनापि न किञ्चित् फलमित्यभिप्रायः । 'क्रि[] य[]या[5] ही[5] नं[5]' इति लक्षणसमन्वयः ।। अ० २. सू०-३१॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy