________________
६३
[अ० २, सू० २७-२६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते राजति- शोभते, हन्तेति तद्विरुद्धाचारिषु खेदाभिव्यक्तये । 'सा[s][i]च[1] [1]णा[s]' इत्येवं लक्षणसंगतिः । अ० २, सू०-२६ ॥
जो गौ सती ॥२७॥ यथा-स्वभर्तृभक्ता, विशुद्धशीला। निरीहचित्ता, सती सतीयम् ॥२७.१.॥
शिखेति भरतः ॥२७.१.॥ अत्रव पञ्चमं प्रभेदमाह- "जो गौ सती" इति- 'जगणः 151, गुरुद्वयं ss' इत्येवं प्रकारर्वणैर्विहिताः पादा यस्य तच्छन्दः 'सती' नाम । उदाहरतियथा-स्वभर्तभक्तति- इयं-प्रकृतवर्णिता काचित् स्त्री, स्वभर्तृभक्ता-स्वस्वामिनि भक्तियुक्ता, विशुद्धशीला- विशुद्ध परपुरुषसम्पर्कशून्यं शीलं स्वभावो यस्याः सा, निरीहचित्ता- निःस्पृहमानसा, सती- सम्पद्यमाना, सती- सचरित्रेति कथ्यत इति शेषः। 'स्व [1] भ[s]र्तृ[1] भ[s]क्ता[5]' इति रूपेण लक्षणसमन्वयः । अस्यैव भरताभिमतं नामान्तरमाह-शिखेति भरतः इति - भरत आचार्योऽस्य च्छन्दसः शिखेति नामाहेत्यर्थः ।। अ० २, सू०-२७ ॥
त्लगा नन्दा ॥२८।। तगणो लघुगुरू च । यथा- चित्ते सरला, वेषे तरला। दाने पृथुला, नन्दा महिला ॥ २८.१ ॥
षष्ठं प्रभेदमाह- "लगा नन्दा" इति- 'तगणःSI, लघुः[1], गुरुः[s]', इत्येवंरूपैर्वर्णविहिताः पादा यस्य तत् 'नन्दा' नामकं छन्दः। उदाहरति-यथाचित्ते सरलेति- चित्ते- चेतसि, सरला- आर्जवयुक्ता, वेषे- नेपथ्यविधी, तरला- चञ्चला, दाने-वित्तविसर्गे, पृथुला- महत्त्ववती, महिला- भद्रा स्त्री, 'नन्दा' इत्याख्यायत इत्यर्थः । 'चि[s]त्ते[5] स[1] [1]ला[s]' इति लक्षणसमन्वयः ॥ अ० २, सू०-२८ ॥
रलगा जया ॥२६॥ यगणो लघुगुरू च । यथा- ममानीयत, मनः कान्तया । मुखेनोबसजिताम्भोजया ॥ २६. १. ॥