SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ६२ सवृत्तिच्छन्दोऽनुशासनप्रयोते [अ० २, सू० २५-२६.] इत्यर्थः । वि - विगतः, दग्धक इति व्युत्यत्त्या विदग्धकशब्दस्य तत्रैव प्रयोग उचित इति तात्पर्यम् । 'यौ[S]व[1]ने [s]न [1] वा [s]' इत्येवं लक्षणंसंगतिः सर्वपादेषु । अस्यैव भरतकृतं नामान्तरमाह - वागुरेति भरतः इति ॥ अ० २, सू० - २४. ॥ भो गौ पङक्तिः ॥ २५ ॥ यथा - फाल्गुनमासे, फुल्लवनान्ते । पावकतुल्या, किंशुकपङ्क्तिः ॥ २५.१।। अक्षरोपपदेत्यन्ये । कुन्तलतन्वीति भरतः ।। २५.१ ।। अत्रैव जातौ तृतीयप्रकारमाह - “भो गौ पङ्क्तिः" इति - 'भः - भगणः । ।, गौ- गुरू ऽऽ' इत्येवंरूपैर्वर्णैः पञ्चभिर्विहिताः पादा यस्य तत् 'पङ्क्तिः' इत्याख्यातं छन्दः । उदाहरति- फाल्गुनमासे इति- फुल्लवनान्ते - फुल्ला:- विकसिताः, वनान्ताः - कान्तारप्रदेशा यस्मिन् तादृशे फाल्गुनमासे, किंशुकपङ्क्तिःपलाशतरुमाला, पावकतुल्या- वर्णतोऽग्नि- सदृशी, विरहिणां कृते च कर्मणाऽपि तथैव दाहिकेत्यर्थः । अस्य नामान्तराण्याह- अक्षरोपपदा इत्यन्ये इति - अन्ये आचार्याः अक्षरोपपदा पङ्क्तिः - 'अक्षरपङ्क्तिः' इति प्रकृतच्छन्दोनाम निर्दिशन्ति । कुन्तलतन्वीति भरतः इति - भरत आचार्यः 'कुन्तलतन्वी' इति प्रथगेवास्य नाम कथयति । 'फा [ 5 ]ल्गु [ 1 ] न [ | ] मा [s]से [s]' इत्येवं लक्षणसंगतिः । वृत्तरत्नाकरच्छन्दोमञ्जर्योरपि प्रकृतस्वरूपस्य च्छन्दसः पङ्क्तिरित्येव नाम ॥ अ० २, सू० - २५ ।। लगा रतिः ॥ २६ ॥ मगणो लघुगुरू च । यथा- साधुचरणा-, म्भोजयुगले । हन्त विदुषो, राजति रतिः ।। २६.१ ।। अस्यामेव चतुथं प्रकारमाह - "लगा रतिः" इति - ' भगण: SII, लघु [ 1 ], गुरु: [s]' एतत्स्वरूपैर्वणैः कृताः पादा यस्य तच्छन्दः 'रतिः' इत्याख्यायते । उदाहरति- यथा - साधुचरणेति - विदुषः- ज्ञानिनः, साधुचरणाम्भोजयुगले - साधुचरणावेव अम्भोजं - कमलं तस्य युगले - द्वन्द्वे, रति:- अनुरागः,
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy